कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 205 of 876
Read in context१६४ कथासरित्सागर एव कृत्वा च सन्निमान् वत्सराजो जगाद सः । यामि चण्डमहासनमिह बद्धवानयामि तम् ॥२८॥ तच्छ्रुत्वा तमुवाचाप्तो मन्त्री योगन्धरायणः । न चैतच्छक्यते राजन् कर्तुं नैव च युज्यते ॥२९॥ स हि प्रभाववान् राजा स्वीकायश्च सव प्रभो । तथा च तद्गतं सर्वं शृण्विदं कथयामि ते ॥३०॥ राज्ञश्चण्डमहासेनस्य कथा अस्तीहोज्जयिनी नाम नगरी भूषणं भुवः । हसन्तीव सुधाधौतैः प्रासादैरमरावतीम् ॥३१॥ यस्यां वसति विश्वेशो महाकालवपुः स्वयम् । शिथिलीकृतकैलासनिवासव्यसनो हरः ॥३२॥ तस्यां महेन्द्रवर्माख्यो राजाभूद्भूभृतां वरः । जयसेनाभिधानोऽस्य बभूव सदृशः सुतः ॥३३॥ जनमेजयस्य तस्याथ पुत्रोऽप्रतिमदोर्बलः । समुत्पन्नो महासेननामा नृपतिकुञ्जरः ॥३४॥ सोऽथ राजा स्वराज्यं तत्पालयन्समचिन्तयत् । न मे खड्गोऽनुरूपोऽस्ति न च भार्या कुलोद्गता ॥३५॥ इति सञ्चिन्त्य स नृपश्चण्डिकागृहमागमत् । तत्रातिष्ठन्निराहारो देवीमाराधयंश्चिरम् ॥३६॥ उत्कृत्याथ स्वमांसानि होमकर्म च चाकरोत् । ततः प्रसन्ना साक्षात्सा देवी चण्डी तमभ्यधात् ॥३७॥ प्रीतास्मि ते गृहाणेमं पुत्र ! खड्गोत्तमं मम । एतत्प्रभावाच्छत्रूणामजयस्त्वं भविष्यसि ॥३८॥ अपि चाङ्गारवती नाम कन्यां त्रैलोक्यसुन्दरीम् । अङ्गारकासुरसुतां शीघ्रं भार्यामवाप्स्यसि ॥३९॥ अतीव चण्डकर्मेदं कृतं चैतद्यतस्त्वया । अतश्चण्डमहासेन इत्याख्या ते भविष्यति ॥४०॥ इत्युक्त्वा दत्तखड्गा सा देवी तस्य तिरोऽभवत् । राज्ञः सङ्कल्पसम्पत्तिवृष्टिरविर्बभूवुन ॥४१॥