कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 227 of 876
Read in context१८४ कथासरित्सागर अथागता रूपशिखा सबुद्धवा शोकविह्वला। सामूशोदयाय स ययौ राजपुत्रो यथागतम्॥१०५॥ लोहजङ्घोऽपि कुट्टन्या प्रसह्य स खलीकृतः। गन्तु प्रवृत्त तीर्थे प्राणांस्त्यक्तु वियोगवान्॥१०६॥ गच्छन्नटव्यां सन्तप्त कुट्टनीमयुना हृदि। रवेश्च ग्रीष्मतापेन च्छायामभिललाप स॥१०७॥ तरुमप्राप्नुवन्सोऽथ रुभ हस्तिकलेबरम्। अथानेन प्रविश्यान्तर्निर्मास जम्बुक कृतम्॥१०८॥ घर्मविक्षेपे तद्रान्तः परिश्रान्त प्रविश्य सः। लोहजङ्घो ययौ निद्रो प्रविद्यद् वातशीतले॥१०९॥ अथाकस्मात्समुत्थाय क्षणेनैव समन्ततः। मेघः प्रवृवृते तत्र धारासारेण वर्षितुम्॥११०॥ तन निर्विवर प्राप सङ्कोच हस्तिचर्म तत्। क्षणाच्च तेन मार्गेण जलोघो भृशमामयौ॥१११॥ तनापहृत्य गङ्गायामक्षेपि गजचर्म तत्। सज्जलोभेन नीत्वा च समुद्रान्तन्यषीयत॥११२॥ तत्र दृष्ट्वा च तत्तन्म निपत्यामिषशङ्कया। हृत्वार्णवे पारमनयत्पक्षी गरुडवंशजः॥११३॥ तत्र चञ्च्वा विदार्यैतत् गजचम विलोक्य च। अन्तस्थं मानुषं पक्षी पलाय्य स छतो ययौ॥११४॥ ततश्च घर्मेणस्तस्मात्पक्षिसरम्भबोधितः। तच्चञ्चुरचितद्वाराल्लोहजङ्घो विनिर्ययौ॥११५॥ दृष्ट्वा समुद्रपारस्थमात्मानं च सविस्मयः। अनिद्रस्वप्नमिव तत्स समग्रममन्यत॥११६॥ अथ द्वौ राक्षसौ तत्र घोरौ भीतौ ददर्श सः। तौ चापि राक्षसौ दूराच्छङ्कितौ तमपश्यताम्॥११७॥ रामात्परामवं श्रुत्वा त तथैव च मानुषम्। दृष्ट्वा तीर्णाम्बुधि भूयस्तो भय हृदि घत्रतुः॥११८॥ समन्त्र्य च तयोर्मध्यावेको गत्वा तथैव तम्। बिभीषणाय प्रभवे यथावृष्ट न्यवेदयत्॥११९॥ दुष्टरामप्रभावः सख्लोऽपि राजा विभीषणः। मानुषागमनाद् भीतो राक्षसं समभाषत॥१२०॥ गच्छ मद्वचनात् भद्र प्रीत्या च ब्रूहि मानुषम्। मागग्यतां गृहेऽस्माकं प्रसा क्रियतामिति॥१२१॥