कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 243 of 876
Read in context५२ कथासरित्सागरे वत्सेशोऽपि तमायान्तं पथि वानरयोधयत् । नडागिरिः करेणुं तां दृष्ट्वा न प्रजहार च ॥२९॥ ततः स पालको भ्रात्रा पश्चादेत्य न्यवार्यत । गोपालकेन वाक्यज्ञः पितृकार्यानुरोधिना ॥३०॥ वत्सराजोऽपि विलम्ब्य गन्तुं प्रवृते ततः । गच्छतश्चास्य शनकैः शर्वरी व्यत्यहीयत ॥३१॥ ततो विन्ध्याटवीं प्राप्य मध्याह्ने तस्य भूपतेः । त्रिषष्टियोजनायाता तृषिताभूत्करेणुका ॥३२॥ अवतीर्णे सभार्ये च राज्ञि तस्मिञ्जराणि सा । पीत्वा तदोपतं प्राप पञ्चतां हस्तिनी क्षणात् ॥३३॥ विषण्णोऽथ स वत्सेशः सह वासवदत्तया । गगनादुद्गतामेतां शृणोति स्म सरस्वतीम् ॥३४॥ अहू मायावती नाम राजन् ! विद्याधराङ्गना । इयन्तं कालमभवं शापशेषेण हस्तिनी ॥३५॥ उपकारं च वत्सेश तवाद्य श्रुतिवत्यहम् । करिष्यामि च भूयोऽपि स्वत्पुत्रस्य भविष्यतः ॥३६॥ एषा वासवदत्ता च पत्नी ते नैव मानुषी । दैवीय कारणवशादवतीर्णा क्षिताविति ॥३७॥ सतः स हृष्टो व्यसृजन्निव्यसानु वसन्तकम् । पुलिन्दकाय सुहृदे वक्तुं स्वागमनं नृपः ॥३८॥ स्वयं च पादचारी सन् स घर्मैयसिकान्वितः । तभव गच्छन्नुत्थाय दस्युभिः पर्यवार्यत ॥३९॥ धनुर्द्वितीयो वस्तूनां तेषां पञ्चोत्तर शतम् । पुरी वासवदत्ताया वत्सराजः स चावधीत् ॥४०॥ तत्क्षण सोऽस्य राज्ञोऽथ मित्र चागात्पुलिन्दकः । यौगन्धरायणसखी वसन्तकपुरःसरः ॥४१॥ स तान्दस्त्युभिदार्यान्यान्वत्सेश प्रजिघाय तम् । नयति स्म निजां पत्नीं भिल्लराजः सवस्तनम् ॥४२॥ तत्र तां रात्रिमाराध्यवर्मपादितषापया । स वत्सेशो दिशायाम सह वासवदत्तया ॥४३॥