BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 249 of 876

Read in context
Page 249

अथास्तं पितरि प्राप्त प्रेरितोऽभूत्स बन्धुभिः। कटाहद्वीपगमनं गुहसेनो यदृच्छया॥७४॥ तच्चास्य गमनं भार्या तदा नाङ्गीचकार सा। सेर्ष्या देवस्मिता कामम यन्त्रीसङ्गशङ्किनी॥७५ स च पत्न्यामनिच्छन्त्यां प्ररयरसु च बन्धुषु। कर्त्तव्यनिश्चलो मूढो गुहसेनो बभूव सः॥७६॥ अथ गत्वा निराहारश्चक्रे ववकुस व्रतं। उपायमिह देवो मे निर्दिशत्विति चिन्तयन्॥७७॥ सापि देवस्मिता तद्वत्तन सार्धं व्यधाद् व्रतम्। ततोऽनयो शिव स्वप्नं दम्पत्योर्दर्शन ददौ॥७८॥ द्वे च रक्ताम्बुजे दत्वा स दवस्तावभाषत। हस्ते गृह्णीतमकैकं पद्ममेतदुभावपि॥७९॥ दूरस्थत्वे च यद्येकं शीलत्यागं करिष्यति। तच्चन्यस्य करे पद्म म्लानिमष्यति सत्वरम्॥॥८०॥ एतच्छ्रुत्वा प्रवुद्धयथ दम्पती तावपश्यताम्। अन्योन्यस्येव हृदय हस्तस्थं रक्तमम्बुजम्॥८१॥ तत स चक्रे प्रस्थानं गुहसेनो धृताम्बुजः। सा तु देवस्मिता तत्र तस्थौ पद्यापितेक्षणा॥८२॥ गुहसेनोऽपि तं प्राप कटाहद्वीपमाशु सः। कर्त्तुं प्रववृत धात्र रत्नानां क्रयविक्रयौ॥८३॥ हस्ते च तस्य तद्दृष्ट्वा सर्वैवाम्लानमम्बुजम्। तत्र कश्चिद् वणिक्पुत्राश्चत्वारो विस्मयं ययुः॥८४॥ ते युक्त्या स गृहं नीत्वा पाययित्वा भृशं मधु। पप्रच्छुः पद्मवृत्तान्तं सोऽपि धीरः शशंस तम्॥८५॥ घघस्त्व धिरनिर्व्वाह्यरत्नाविभ्रयविक्रयम्। विचिन्त्य गुहसगं तं चत्वारोऽपि वणिग्बसुताः॥८६॥ समन्त्र्य कौतुकात्पापास्तद्भार्याशीलविप्लवम्। चिकीर्षवो ययुः शीघ्रं ताम्रलिप्तीमलक्षिताः॥८७॥ तत्रोपायं विचिन्वन्त मुगतायतनस्थिताम्। प्रव्राजिकामुपाजग्मुर्नाम्ना योगकरण्डिकाम्॥८८॥