कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 271 of 876
Read in context२४ कथासरित्सागर बभूव रुद्रशर्माख्यः कश्चन ब्राह्मणः पुरा । बभूवतुश्च तस्य द्वे गृहिण्यो गृहमेधिनः ॥३७॥ एका सुतं प्रसूयैव तस्य पञ्चत्वमाययौ । तत्सुतोऽपरमातुश्च हस्त शेनापिष्ठोऽभवत् सः ॥३८॥ सा च किञ्चिद्विविदूष्यस्य रूक्षं तस्याशनं ददौ । सोऽपि तनाभवद् बालो धूसराङ्गः पृथूदरः ॥३९॥ मातृहीनस्त्वयायं मे कथं शिशुरुपेक्षितः । इति तामपरां पत्नीं रुद्रशर्मापि सोऽभ्यधात् ॥४०॥ सेव्यमानोऽपि हि स्नेहैरोगेन किमप्यसौ । किं करोम्यहमस्येति साध्यथ पतिमब्रवीत् ॥४१॥ नूनमेवस्वभावोऽयमिति मेने च स द्विजः । स्त्रीणामलीकमुग्धं हि वचः को मन्यते मृषा ॥४२॥ बाल एव विमष्टोऽयमिति बालविनष्टकः । नाम्ना स बालस्तत्र संवृद्धोऽभूत्पितुर्गृहे ॥४३॥ असावपरमाता मां कदयत्यति सर्वदा । वरं प्रतिक्रिया कांश्चिद्यतवेत्तस्या करोम्यहम् ॥४४॥ इति सञ्चिन्तयामास सोऽथ बालविनष्टकः । व्यतीतपञ्चषड्वर्षोऽपि वयसा बत बुद्धिमान् ॥४५॥ अथागतं राजकुलाज्जगाद पितरं रहः । तात द्वौ मम तातौ स्त इत्यविस्पष्टया गिरा ॥४६॥ एवं प्रत्यहमाह स्म स बालः सोऽपि तत्पिता । तां सोपपतिमाशङ्क्य भार्यां स्पर्शेऽप्यवर्जयत् ॥४७॥ सापि दध्यौ विना दोषं कस्मान्मे कुपितः पतिः । किञ्चिद् बालविनष्टेन कृतं किञ्चिद् भवेदिति ॥४८॥ सादरं स्नापयित्वा च दत्वा स्निग्धं च भोजनम् । कृत्योत्सङ्गे च पप्रच्छ सा तं बालविनष्टकम् ॥४९॥ पुत्र किं रोपितस्तातो रुद्रशर्मा त्वया मयि । तच्छ्रुत्वैव स तां बालो जगादापरमातरम् ॥५०॥ अतोऽधिकं ते दास्यामि न चेदद्यापि शाम्यसि । स्वपुत्रपोषिणी कस्मान्मां क्लिदनासि सर्वदा ॥५१॥