BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 337 of 876

Read in context
Page 337

२१६ कथासरित्सागर सत्यं त्वज्जार इत्युक्त्वा विहसन्स ततो मुनिः । सत्यानुरोधक्लृप्तान्तं शापं तस्यामपातयत् ॥१४२॥ पापशीले ! शिलाभावं भूरिकालमवाप्नुहि ! आ वनान्तरसञ्चारिरामवालोकनादिति ॥१४३॥ वराङ्गलुब्धस्याङ्गं १ ते तत्सहस्रं भविष्यति । दिव्यं स्त्रीं विश्वकर्मा यां निर्मास्यति तिलोत्तमाम् ॥१४४॥ तां विलोक्य तदैवाक्ष्णां सहस्रं भविता च तत् । इतीन्द्रमपि तत्कालं शपति स्म स गौतमः ॥१४५॥ दत्तशापो यथाकामं तपसे स मुनिर्ययौ । अहल्यापि शिलाभावं दारुणं प्रत्यपद्यत ॥१४६॥ इन्द्रोऽप्यावृतसर्वाङ्गो वराङ्गैरभवत्ततः । अशील कस्य नाम स्यान्न खलीकारकारणम् ॥१४७॥ एवं कुकर्म सर्वस्य फलत्यात्मनि सर्वदा । यो यद् वपति बीजं हि लभते सोऽपि तत्फलम् ॥१४८॥ तस्मात्परविरुद्धेषु नोत्सहन्ते महाशयाः । एतदुत्तमसत्त्वानां विधिसिद्धं हि सव्रतम् ॥१४९॥ युवां पूर्वभगिन्यौ च देव्यौ शापच्युते उभे । तद्वदस्योन्यहितकृन्निर्गूढं हृदयं हि वाम् ॥ १५० ॥ एतद्वसन्तकाच्छ्रुत्वा मिथो वासवदत्तया । पद्मावत्या च सुतरामीर्ष्यालिशोच्यमुज्झितम् ॥१५१॥ देवी वासवदत्ता च कृत्वा साधारणं पतिम् । आत्मनीव प्रियं चक्रे पद्मावत्यां हितोन्मुखी ॥१५२॥ तस्या महानुभावत्वं तत्तादृङ्मगधेश्वरः । श्रुत्वा पद्मावतीसृष्टदूतेभ्योऽपि सुतोष सः ॥१५३॥ अभ्युपेत्य वत्सेशं मन्त्री यौगन्धरायणः । उपेत्य सन्निधौ देव्याः स्थितेऽन्यदवभाषत ॥१५४॥ उद्योगायाधुना देव कौशाम्बीं किं न गम्यते । नाशङ्का मगधेशाच्च विद्यते वञ्चितादपि ॥१५५॥ १ वराङ्ग—स्त्रियः प्रजननेन्द्रियम् । २ भग सहस्रमित्यर्थः।