BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 397 of 876

Read in context
Page 397

१५६ कथासरित्सागर सत्यशौच स राजाभूद् विप्रो मूर्खा विद्रूपकः। समुच्छ्रितसितच्छत्रो विधूतोभयचामरः॥४०३॥ सदा च मङ्गलाऽतोद्य-वाद्यनिर्ह्रादनिर्भरम्। प्रहर्षमुक्तनादेव रराजोज्जयिनी पुरी॥४०४॥ इत्याप्तराज्यविभवः क्रमशः स कृत्स्नां जित्वा महीमखिलराजकपूजिताङ्घ्रिः। तामि समं विगतमत्सरमिव ताभि र्भ्रातृंस्तदधिरभरस्त निजप्रयामि॥४०५॥ इत्यनुकूले दैवे भजति निजं सत्वमेव धीराणाम्। लक्ष्मीरासाकर्षणसिद्धमहामोदमन्त्रत्वम्॥४०६॥ इत्थं श्रुत्वा वत्सराजस्य वक्त्राच्चित्रामेतामद्भुतार्थां कथां ते। पार्श्वसीना मन्त्रिमुख्यास्त्य सर्वे देव्यौ चापि प्रीतिमग्र्यामवापुः॥४ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावानककलम्बके चतुर्थस्तरङ्गः।

पञ्चमस्तरङ्गः वत्सराजकृतं विद्याराधनम् ततो वत्सेश्वरं प्राह तत्र यौगन्धरायणः। राजन्! दैवानुकूल्यं च विद्यते पौरुषं च ते॥१॥ नीतिमार्गे च वयमप्यत्र किञ्चित् कृतश्रमाः। तद्यथा चिन्तितं शीघ्रं कुरुष्व विजयं दिशाम्॥२॥ इत्युक्ते मन्त्रिमुख्येन राजा वत्सेश्वरोऽब्रवीत्। अस्त्वेतद् बहुविघ्नास्तु सदा कल्याणसिद्धयः॥३॥ अतस्तदर्थं तपसा शम्भुमाराधयाम्यहम्। विना हि तत्प्रसादेन कुतो वाञ्छितसिद्धयः॥४॥ तच्छ्रुत्वा च तपस्तस्य मन्त्रिणोऽप्यनुमेनिरे। सेतुबन्धोद्यतस्याब्धौ रामस्येव कपीश्वराः॥५॥


१ चतुर्विध वाद्यानां संमिश्रितः शब्दः 'आतोद्य' इत्युच्यते।