BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 419 of 876

Read in context
Page 419

१७८ कथासरित्सागर तत्र लेभे शुभां भूमिं सम्भाव्य फलसम्पदम्। तन्मध्ये च महाभोगमश्वत्थतरुमैक्षत ॥२४॥ स कल्याणघनच्छायाच्छन्नसूर्यांशुशीतलम्। प्रावृट्कालमिवालोक्य कृष्यर्थी तोयमाप स ॥२५॥ योऽधिष्ठाताऽत्र तस्यैव भक्तोऽस्मीत्यभिधाय च। कृतप्रदक्षिणोऽश्वत्थवृक्षं तं प्रननाम स ॥२६॥ सयोग्याश्च बलीवर्दयुगं रचितमङ्गलः। कृत्वा बलिं सम्य तरोरारेभे कृषिमथ स ॥२७॥ तस्थौ तस्यैव चाधस्ताद्द्रुमस्य स दिवानिशम्। भोजनं तस्य चानिन्ये सत्रैव गृहिणी सदा ॥२८॥ काले तत्र च पक्वेषु तस्य सस्येष्वसञ्चितम्। सा भूमिः परराष्ट्रेण दैवादेत्य व्यलुण्ठ्यत ॥२९॥ ततः परबल याते नष्टे सस्ये च सत्त्ववान्। आश्वास्य रुदतीं भार्यां किञ्चिच्छेषे तदाब्रवीत् ॥३०॥ प्राग्वत्कृतबलिस्तस्थौ रात्रावथ तरोरधः। निसर्गः स हि धीराणां यदापद्यधिकं दृढाः ॥३१॥ अथ चिन्तावनिद्रस्य स्थितस्यैकाकिनो निशि। तस्यादश्वत्थतरोस्तस्मादुच्चचार सरस्वती ॥३२॥ भो सोमदत्त ! तुष्टोऽस्मि तव तद्गच्छ भूपतेः। आन्त्यप्रभसञ्ज्ञस्य राष्ट्रं धीरत्वशालिनः ॥३३॥ तत्र सस्थानवरत द्वारेवेशे महीपतेः। ब्रूषे पठित्वा सन्ध्याग्निहोत्रमन्त्रानिदं वचः ॥३४॥ फलभूतिरहं नाम्ना विप्रः शृणुत वच्मि यत्। भद्रकृत्प्राप्नुयाद् भद्रमभद्रं चाप्यभद्रकृत् ॥३५॥ एवं ब्रुवन् तत्र त्वं महतीमृद्धिमाप्स्यसि। सन्ध्याग्निहोत्रमन्त्रांश्च मत्त एव पठाधुना ॥३६॥ महं च यदा इत्युक्त्वा स्वप्रभावेण तत्क्षणम्। समध्याप्य च तान्मन्त्रान् खेटे वाणी तिरोदधे ॥३७॥ प्रातः स सोमदत्तश्च प्रतस्थे भार्यया सह। फलभूतिरिति प्राप्य नाम यदाहूतः श्रुतौ ॥३८॥ अतित्रम्राटवीम्तास्त्वा विषमाः परिवर्त्तिनीः। दुर्गा दृढ गत्प्राप प्रौढवर्णविषयं च सः ॥३९॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 419 of 876 · BharatKosha