BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 457 of 876

Read in context
Page 457

४१८ कथासरित्सागर तत्पार्श्वं व्रज राज्यं ते साधयिष्यति वत्स सः। इत्युक्तः स तदा मात्रा राजपुत्रो जगाद ताम् ॥६६॥ तत्र मां निष्परिकरं गतं को बहु मन्यते। तच्छ्रुत्वा पुनरप्येवं सा माता तमभाषत ॥६७॥ श्वशुरस्य गृहं गत्वा स्वं हि प्राप्य सतो धनम्। कृत्वा परिकरं गच्छ निकटं चक्रवर्तिनः ॥६८॥ इति स प्रेरितो मात्रा समन्योऽपि नृपात्मजः। तस्मात्प्रतस्थे साय च प्राप तच्छ्वशुर गृहम् ॥६९॥ पितृहीनो विनष्टार्थोबाष्पपातामिलक्षणः। अकाल नाशकच्चात्र प्रवेष्टुं लज्जया निशि ॥७०॥ निकटे सत्रशालास्य स्थितः श्वशुरमन्दिरात्। नक्तं रज्जवावरोहन्तीमकस्मात्स्त्रियमैक्षत ॥७१॥ क्षणाच्च भार्या स्वामेव तां रत्नद्युतिभास्वराम्। उल्कामिवान्ध्रपतितां परिज्ञायाभ्यतप्यत ॥७२॥ सा तु तं धूसराङ्गम दृष्ट्वाप्यपरिजानती। कोऽसीत्यपृच्छत्तच्छ्रुत्वा पान्थोऽहमिति सोऽब्रवीत् ॥७३॥ ततः सा सत्रशालान्तः प्रविष्टा वणिक्सुता। अन्वगाद्राजपुत्रोऽपि स तां गुप्तमवेक्षितुम् ॥७४॥ सा चात्र पुरुषं कञ्चिदुपागात्क्रुब्धोऽपि ताम्। स्वं चिरेणागतासीति पादघातैरताडयत् ॥७५॥ ततः सा द्विगुणीभूतरागा पापा प्रसाद्य तम्। पुरुषं तेन सहिता तत्र तस्थौ यदृच्छया ॥७६॥ तदृष्ट्वा तु स सुप्रज्ञो राजपुत्रो व्यचिन्तयत्। कोपस्यायं न कालो मे साध्यमम्यद्धि वर्तते ॥७७॥ क्व च प्रसरद्रक्तच्छद्म कृपणयोर्द्वयोः। शत्रुर्योऽयं स्त्रियामस्यामस्मिंश्च नृपशौ मम ॥७८॥ किमेतया दुष्टया वा कृत्यमेतद्धि युज्यते। मद्यैर्मासोक्तनक्रोडानेपुच्छे दुःखरूपिणः ॥७९॥ अतुल्यकुलसम्बन्धः सैषा किं वापराध्यति। मुक्त्वा वलिभुजं काकी कोकिले रमते कथम् ॥८०॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 457 of 876 · BharatKosha