BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 481 of 876

Read in context
Page 481

४३८ कथासरित्सागर

प्राप्य विद्याधरीं भार्या नियोज्य स्वपदे सुतम्। पुनर्विद्याधरीं योनिं स्मृतजातिः प्रपत्स्यते ॥५८॥ एवं निशम्य शापान्तमुक्त्वा शर्वे तिरोहिते। अचिरेणैव जातोऽहं भूतले वणिजां कुले ॥५९॥ नगर्यां वलभीनाम्न्यां महाधनवणिक्सुतः। वसुदत्ताभिधानं संवृद्धिं च गतवानहम् ॥६०॥ कालेन यौवनस्थश्च पित्रा कृतपरिच्छदः। द्वीपान्तरं गतोऽभूवं वणिज्याय तदाज्ञया ॥६१॥ आगच्छन्तं ततोऽटव्यां तस्करा विनिपात्य माम्। हृतस्वमनयन्बद्धा स्वपल्लीं चण्डिकागृहम् ॥६२॥ विलोलदीर्घया घोरं रक्तांशुकपताकया। जिघत्सत्तं पशुप्राणान् कृतान्तस्येव जिह्वया ॥६३॥ तत्राहमुपहारार्थमुपनीतो निजस्य तैः। प्रभोः पुलिन्दकाख्यस्य देवीं पूजयतोऽन्तिकम् ॥६४॥ स दृष्ट्वैवार्द्रहृदयः शबरोऽप्यभवन्मयि। व्यक्तिं जन्मान्तरप्रीति र्मनःस्निग्धवशाद्गतम् ॥६५॥ ततो मां मोचयित्वैव बभासे शबराधिपः। ऐच्छदात्मोपहारेण कर्तुं पूजासमापनम् ॥६६॥ मैवं कृथाः प्रसन्नास्मि तव याचस्व मां वरम्। इत्युक्तो दिव्यया वाचा प्रहृष्टश्च जगाद सः ॥६७॥ त्वं प्रसन्ना वरः कोऽन्यस्त्वत्प्राप्त्यानावयोर्द्वयोः। जन्मान्तरेऽपि मे सख्यमनेन वणिजास्त्विति ॥६८॥ एवमस्त्विति शान्तायां वाचि मां शबरोऽथ सः। प्रदत्तमविगण्यैवं प्रेषियाय निजं गृहम् ॥६९॥ मृत्योर्मुक्तात्प्रवासाच्च शनैः प्रत्यागते मयि। अकरोन्नानशूनाम्नः पिता मम महोत्सवम् ॥७०॥ ज्ञात्वा तत्र चापश्यमहं मार्गावलम्बनात्। बद्धंम्रानायितं राज्ञा समेव शबराधिपम् ॥७१॥ गच्छन् पितुरथ विज्ञप्य च महीपतिम्। मोचितः स्वगलक्षण च मया वधनिग्रहात् ॥७२॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 481 of 876 · BharatKosha