BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 483 of 876

Read in context
Page 483

प्राणदानोपकारस्य कुर्व्वन् प्रत्युपक्रियाम्। आनीय च गृहं प्रीत्या पूर्णं सम्भावितद्विजम्॥७३॥ सत्कृत्य प्रपितक्षाध हृदयं प्रमपेक्षरम्। निधाय मयि पत्नीं स्वां प्रायात्स शबराधिप ॥७४॥ तत्र प्रत्युपकारार्थं चिन्तयन्प्राभृतं मम। स्वल्पं स मेने स्वाधीन मुक्ताकस्तूरिकाद्यपि॥७५॥ तत सातिशय प्राप्तं मुक्तासारं स मत्कृते। धनुद्वितीयः प्रययौ गजान् हन्तु हिमाचलम्॥७६॥ भ्रमश्च तत्र तीरन्यद्ववागार महत्तर । प्राप तुल्य कृतप्रीतिस्तदम्भोजिन्नरागिभिः॥७७॥ तत्राणक्ष्यम्बुपानायैमागम वन्यहस्तिनाम्। छन्नः स तस्थावेकान्ते समापस्सज्जिघांसया॥७८॥ तावत्तत्र सरस्तीरगतं पूजयितु हरम्। आगतामद्भुताकारां कुमारीं सिंहवाहनाम्॥७९॥ स ददर्श तुषाराद्रिराजपुत्रीमिवापराम्। परिचर्यापरां शम्भोः कन्यकामाववर्तिनीम्॥८०॥ दृष्ट्वा च विस्मयाक्रान्तः शबरः स व्यचिन्तयत्। केयं स्याद्यदि मर्त्यस्त्री तत्कथं सिंहवाहना॥८१॥ अथ दिव्या कथं दृश्या मादृशस्त्विय ध्रुवम्। चक्षुषो पूर्वपुण्यानां मूर्त्ता परिणतिर्मम॥८२॥ अन्यथा यदि मित्रं त योजयेयमहं शत । वाप्यन्यत्र मया तस्य कृता स्यात्प्रत्युपक्रिया॥८३॥ तदेतामुपसर्पामि तावज्जिज्ञासितुं वरम्। इत्यालोच्य स मित्रं मे शवरस्तामुपाययौ॥८४॥ तावच्च सावतीयैव निष्ठाच्छायानिवारिम । कन्यागस्य सरः पद्मान्यवचतु प्रचक्रमे॥८५॥ तं च दृष्ट्वान्तिकप्राप्तं शबरं सा कृतानतिम्। अपूर्वमतिथिप्रीतया स्वागते मान्वरञ्जयत्॥८६॥ कस्त्वं किं चागतोऽस्येतां भूमिमत्यन्तदुर्गमाम्। इति पृष्टवतीं तां च शवरः प्रत्युवाच सः॥८७॥