कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 485 of 876
Read in context४४२ कथासरित्सागर
अहं भवानीपादैकशरणः शबराधिपः। आगतोऽस्मि च मातङ्गमक्ताहेतोरिदं वनम् ॥८८॥ त्वां च दृष्ट्वाधुनारम्यो देवि प्राणप्रयः सुहृत्। सार्थवाहसुतः श्रीमान् वसुदत्तो मया स्मृतः ॥८९॥ स हि त्वमिव रूपेण यौवनेन च सुन्दरि!। अद्वितीयोऽस्य विश्वस्य नयनामृतनिर्भरः ॥९०॥ सा धन्या कन्यका लोके यस्यास्तेनेह युज्यते। मैत्रीदानदयाधैर्यनिविग्ना कङ्कणी करः ॥९१॥ तत्त्वदाकृतिरेषा चेत्तादृशेन न युज्यते। व्यर्थं वहति तन्कामः कोदण्डमिति मे व्यथा ॥९२॥ इति व्याधभटवचनैः सद्योऽपहृतमानसा। सामूत्कुमारी कन्दर्पमोहमन्त्राक्षरैरिव ॥९३॥ उवाच तं च शयरं प्रेर्यमाणा मनोभुवा। क्व स ते सुहृदानीय सान्त्व मे दश्यतामिति ॥९४॥ तच्छ्रुत्वा च तथेत्युक्त्वा सामामन्त्र्य सत्वरं सः। कृतार्थमानी मुदितः प्रतस्थे शबरस्ततः ॥९५॥ प्राप्य स्वपल्लीमादाय मुक्तामृगमदादिकम्। भूरि भारशतैर्हायमस्मद्गृहमथाययौ ॥९६॥ सर्वं पुरस्कृतस्तत्र प्रविश्य प्रामृतं च तत्। मल्पित्रे म बहुस्वर्णलक्षमूल्यं न्यवेदयत् ॥९७॥ उत्सवेन च यातेऽस्मिन्दिने रात्रौ स मे रहः। कन्यादानवृत्तान्तं तमामूलाद्व्यवर्णयत् ॥९८॥ एहि तत्रैव गच्छाव इत्यक्त्वा च समुत्सुकम्। मामादाय निशि स्वरं स प्रायाच्छ्बगधिपः ॥९९॥ प्रातश्च मां गतं क्वापि बुद्धवा महावराधिपम्। तत्प्रीतिप्रत्ययात्सम्पौ धृतिमालम्ब्य मन्पिता ॥१००॥ अहूं च प्रापितोऽभूव क्रमात्तंन तरस्विना। शबरं तुषाराद्रिं शून्याम्बरशिखर्मणा ॥१०१॥ तच्च प्राप्य मरे माथ स्नात्वा स्वादुफलाशनी। अहूं च स च तामेकां वने तत्रोषितो निशाम् ॥१०२॥ स्तनामि शीजकुसुमं भृङ्गीमञ्जीरसुन्दरम्। गुमगन्धबहं हारि ज्वलितौषधिदीपकम् ॥१०३॥