BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 487 of 876

Read in context
Page 487

रतेस्तद्वासवेश्मेव विधात्र्यै गिरिकाननम् । आवयोरभवल्लक्ष्म पिवतोस्तत्सरोजलम् ॥१४॥ ततोऽन्येषु प्रतिपदं तत्तत्पुरुकलिकामृता । प्रत्युद्गतेव मनसा मम तन्मार्गभाविना ॥१५॥ चक्षुषा दक्षिणेनापि सूचितागमनामूना । दिवुक्षयेव स्फुरता सा कन्यात्रागताभवत् ॥१०६॥ सटारुत्सिंहपृष्ठस्था सुभ्रूदृष्टा मया च सा । शरव्यम्भोघरोत्सङ्गसङ्गिनीवन्द्यवी कला ॥१०७॥ विलसद्विस्मयौत्सुक्यसाध्वसं पश्यतश्च ताम् । ममावर्तत तत्काल न जाने हृदय कथम् ॥१०८॥ अथावतीर्य सिंहात्सा पुष्पाण्युच्चित्य कन्यका । स्नात्वा सरसि तत्तीरगत हरमपूजयत् ॥१०९॥ पूजावसाने चोपैत्य स सखा शबरो मम । प्रणम्यात्मानमावेद्य तामबोचत् कृतादराम् ॥११०॥ आनीतः स मया देवी सुहृद्योग्यो वरस्तव । मन्यस यदि तत्तुभ्य दर्शयाम्यधुनैव तम् ॥१११॥ तच्छ्रुत्वा दर्शयेत्युक्ते तया स शबरस्ततः । आगत्य निकटं नीत्वा मां तस्याः समदर्शयत् ॥११२॥ सापि मां तिर्यगालोक्य चक्षुषा प्रणयलुठता । मदनावेशसन्नगा शबरेश तमभ्यधात् ॥११३॥ सखा ते मानुषो नाय कामः कोऽप्ययमागतः । मद्गच्छनाय देवोऽस्य मर्त्यस्याप्याकृति कृतः ॥११४॥ तदाकर्ण्योक्तवानस्मि तां प्रत्याययितुं स्वयम् । सत्यं सुवरि ! मर्त्योऽहं किं व्याजनाजने जने ॥११५॥ अह हि सार्थवाहस्य वल्मीकासिनः सुतः । महाधनाभिधानस्य महेश्वरवराजितः ॥११६॥ तपस्यन्स हि पुत्रार्थमुद्दिश्य शशिशेखरम् । समादिष्टस्ततस्तेन स्वप्ने देवेन तुष्यता ॥११७॥ उत्तिष्ठोत्तस्यते कोऽपि महात्मा तनयस्तव । रहस्यं परमं यत्तत्सम्प्रवक्ष्याम विस्तरम् ॥११८॥