BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 567 of 876

Read in context
Page 567

५२ कथासरित्सागर तस्मिन् समुद्रदत्ताख्यमुत्पलद्वीपयायिनम्। अविश्य वणिजं तेन सह सख्यं चकार सः॥३९॥ तदीयं यानपात्रं च समं समाधिरुह्य सः। तत्प्रीतिपूर्णपाथेयः प्रतस्थेऽम्बुधिवर्त्मना ॥४०॥ ततोऽन्यदेश गन्तव्ये समुत्तस्थावशक्तिकम्। काले विद्युल्लसज्जिह्वो गर्जज्जलधराक्षसः ॥४१॥ क्षुभ्यन्नुद्यम्य पाषाणानूरूनप्यवपातयन् । ववौ विधेरिवाऽरम्भः प्रचण्डश्च प्रभञ्जनः ॥४२॥ वाताहताश्च जलभूदतिष्ठन्महोर्मयः। आश्लेषाभिभवक्रोधादिव क्षमाः सपक्षकः ॥४३॥ ययौ च तत्प्रवहणं क्षणमूर्ध्वमधः क्षणम्। उच्छ्रायपातपर्य्याय¹ दक्षयद्वनितामिव ॥४४॥ क्षणान्तरं च वणिजामाक्रन्दस्तीव्रपूरितम्। भरादिव लघूत्पत्य वहनं सममज्जयत् ॥४५॥ मग्ने च तस्मिंस्तत्स्वामी स बणिक्पतितोऽम्बुधौ। तीर्णश्च फलकास्तम्बं प्राप्यान्यद् वहनं चिरात् ॥४६॥ शक्तिदेवः पतंस्तं सु तं व्यात्तमुखकन्दरः। अपरिक्षतसर्वाङ्गं महामत्स्यो निगीर्णवान् ॥४७॥ स च मत्स्योऽब्धिमध्येन तत्काल स्वच्छया चरन्। उत्पलद्वीपनिकटं जगाम विधियोगतः ॥४८॥ तत्र तस्यव कैवर्त्तपतेः सत्यव्रतस्य सः। शफरग्राहिमितृत्यैः प्राप्य दैवादगृह्यत ॥४९॥ ते च तं सुमहाकायं निन्युराकृष्य कौतुकात्। सर्वेष धीवरास्तस्य निजस्य स्वामिनोऽन्तिकम् ॥५०॥ सोऽपि तं तादृशं दृष्ट्वा तैरेव सकुतूहलः। पाठीनं पाटयामास मुख्यैः सत्यव्रतो निजैः ॥५१॥ पाटितस्योदराञ्जीवञ्छक्तिदेवोऽथ तस्य सः। मनुभूतापराश्चर्य्यगर्भवाशो विनिर्ययौ ॥५२॥ १ कर्मणित्पर्य्यः