BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 623 of 876

Read in context
Page 623

५७२ कथासरित्सागर गच्छंश्चिराच्च सम्प्राप जलधेः पुलिनस्थितम्। तद्विटङ्कपुरं नाम नगरं पुनरेव सः ॥११५॥ तत्रापश्यच्च वणिजं तं सम्मुखमुपागतम्। येन साकं गतस्याब्धिं पोतमादावभज्यत ॥११६॥ सोऽयं समुद्रदत्त स्यात् क्व च पतितोऽम्बुधौ। उत्तीर्णोऽथ न वा चित्रमहमवे मिदर्शनम् ॥११७॥ इत्यालोच्य स यावत्तमभ्येति वणिजं द्विजः। तावत्स स परिज्ञाय हृष्टः कण्ठेऽग्रहीद् वणिक् ॥११८॥ अनेषीच्च निजं गेहं कृतातिथ्यश्च पृष्टवान्। पोतमग्ने त्वमम्भोधावे कथमत्तीर्णवानिति ॥११९॥ क्षपितवोऽपि वृत्तान्तं तथा च कृत्स्नमब्रवीत्। यथा मत्स्यनिगीर्णः प्रागुत्स्थलोद्वीपमाप सः ॥१२० ॥ अनन्तरं च तमपि प्रत्यपृच्छद् वणिग्वरम्। क्व तदा त्वमप्यब्धिमुत्तीर्णो वर्ण्यतामिति ॥१२१॥ अथाब्रवीत्सोऽपि वणिक् सवाहं पतितोऽम्बुधौ। दिनत्रयं भ्रमन्नासमकं फलहकं श्रितः ॥१२२॥ ततस्तेन पथाऽकस्मादेकं वहनमागतम्। तत्रस्थैश्चाहमाक्रन्दन् दृष्ट्या चात्रारोपितः ॥१२३॥ मारूढञ्चात्र पितरं स्वमपश्यमहं तदा। गत्वा द्वीपान्तरं पूर्वं चिरात्तत्कालमागतम् ॥१२४॥ स मां दृष्ट्वा परिज्ञाय कृतकण्ठग्रहः पिता। स्वमपृच्छद् वृत्तान्तमहं चैव तमब्रुवम् ॥१२५॥ चिरकालप्रयातेऽपि तात त्वय्यनुपागते। स्वधमं इति वाणिज्यं स्वयमस्मि प्रवृत्तवान् ॥१२६॥ ततो द्वीपान्तरं गच्छंस्तह वहनभङ्गतः। अधाम्बुधौ निमग्नः सन् प्राप्य युष्माभिरित्युभूत् ॥१२७॥ एवं मयोक्तस्तातो मां सोपालम्भमभाषत। आरोहसि किमर्थं त्वमीदृशान् प्राणसंशयान् ॥१२८॥ धनमस्ति हि मे पुत्र! स्थितश्चाहं तदर्जने। पश्यानीतं मयेदं ते वहनं हेमपूरितम् ॥१२९॥ इत्युक्त्वाश्वास्य तेनैव वहनेन निजं गृहम्। विटङ्कपुरमानीतस्तेनेवेदमहं ततः ॥१३ ०॥