BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 63 of 876

Read in context
Page 63

३ कथासरित्सागर कारून राज्यकामास्त पुत्रक तं जिघांसव । निन्युस्तद्दर्शनव्याजाद्द्विजा विन्ध्यनिवासिनीम् ॥३८॥ वधकान्स्थापयित्वा च देवी गर्भगृहान्तरे । तमूचु पूर्वमकरस्व पश्च देवी प्रजान्तरम् ॥३९॥ तत प्रविष्टो विश्वासात्स दृष्ट्वा हन्तुमुद्यतान् । पुश्यान् पुत्रकोऽपृच्छत्कस्माद्भिहथ मामिति ॥४०॥ पितृभिस्ते प्रयुक्ता स्म स्वप्न दत्वेति चाब्रुवन् । ततस्तान्मोहिताञ्छ्वेभ्या बुद्धिमान्पुत्रकोऽवदत् ॥४१॥ ददाम्यतद्धनं वो रत्नालङ्करण निजम् । मां मुञ्चत करोम्यत्र नोद्भेद यामि दूरत ॥४२॥ एवमस्त्विति तत्तस्माद्गृहीत्वा वधका गता । 'हृत पुत्रक' इत्युचुस्तत्पितृणापुरो मृषा ॥४३॥ तत प्रतिनिवृत्तास्ते हृता राज्यार्थिनो द्विजा । मन्त्रिभिर्द्रोहिणो बुद्ध्य कृतघ्नाना शिव कुत ॥४४॥ अत्रान्तर स राजापि पुत्रक सत्यसङ्गर । विवेश विन्ध्यकान्तार विरक्त स्वेषु बन्धुषु ॥४५॥ भ्रमन्ददर्श सत्रासौ बाहुयुद्धैकतत्परौ । पुरुषा द्वौ ततस्तौ स पृष्टवान्को युवामिति ॥४६॥ मयासुरसुतावावां तदीय चास्ति नौ धनम् । इद भाजनमया च यष्टिरेते च पादुके ॥४७॥ एतन्निमित्त युद्ध नौ यो बली स हरेदिति । एतत्तद्वचनं श्रुत्वा हसन् प्रोवाच पुत्रक ॥४८॥ कियदेतद्धनं पुंस्तस्ततस्तौ समवोचताम् । पादुके परिधायैते खेचरत्वमवाप्यते ॥४९॥ यद्यत्त्या यल्लिख्यते किञ्चित्सत्य सम्पद्यत हि तत् । भाजने यो य आहारश्चिन्त्यते स स तिष्ठति ॥५०॥ तच्छ्रुत्वा पुत्रकोऽवादीत्कि युद्धेनान्स्वयं पण । धावन्त्यणाधिको य स्यात्स एवैतद्धरेदिति ॥५१॥