कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 643 of 876
Read in context५१ कथासरित्सागर दृष्ट्वैव च सवेतालोऽप्यभ्यधावत्स तं रुषा। हृप्यद्विद्युत्प्रभानेत्रचकोरामृतचन्द्रमाः ॥२४६॥ जासपादोऽपि सोऽकस्मातं दृष्ट्वैवागतं तथा। वित्रासाद् भ्रष्टनिस्त्रिंशो' निपपातासनाद् भुवि ॥२४७॥ देवदत्तोऽपि सखड्गं स लब्ध्वाप्यवधीन्न तम्। रिपुष्वपि हि भीतेषु सानुकम्पा महाशयाः ॥२४८॥ जिघांसन्तं च वेताल तं जगाद स तारयन्। पाखण्डिना किमेतेन कृपणेन हतेन नः॥२४९॥ स्थाप्यतां भुवि नीत्वाय सस्मारस्वनिलये त्वया। आस्तां तत्रैव भूयोऽपि याथ कापालिको वरम् ॥२५० ॥ इत्येव वदतस्तस्य देवदत्तस्य तत्क्षणम्। दिवोऽवतीर्य शर्वाणी देवी प्रत्यक्षतां ययौ ॥२५१॥ सा जगाद च तं प्रह्व पुत्र तुष्टास्मि तेऽधुना। अनन्यसदृशेनेह सत्त्वोत्कर्षेण सम्प्रति ॥२५२॥ तद्विद्याधरराज्यञ्च मया दत्तमिहैव ते। इत्युक्त्वापितविद्या सा देवी सद्यस्तिरोऽभवत् ॥२५३॥ जासपादश्च नीत्वैव वेतालेन स भूतले। विभ्रष्टसिद्धिर्निदधे नाशर्मस्थिरमुद्धये ॥२५४॥ देवदत्तोऽपि सहित स विद्युत्प्रभया तया। विद्याधराधिराज्यं तत्प्राप्य तत्र व्यजृम्भत ॥२५५॥ इत्याख्याय कथां पत्ये शक्तिदेवाय सत्वरा। सा बिन्दुरेखा भूयस्तं बभाषे मृदुभाषिणी ॥२५६॥ इतीदृशि भवन्त्येव कार्याणि तदिव मम। बिन्दुप्रत्युदितं गर्भं मुक्तशोकं विपाटय ॥२५७॥ शक्तिदेवस्य विद्याधरत्वप्राप्तिः इत्येव बिन्दुरेखायां वदन्त्यां पापशङ्किते। शक्तिदेवे च गगनादुदभूत्तत्र भारती ॥२५८॥ 'भो शक्तिदेव ! निश्शङ्कं गर्भोऽस्याः कृप्यतां त्वया। कष्ठे मुष्ट्या गृहीतो हि खड्गोऽसौ ते भविष्यति' ॥२५९॥ १ हस्तच्युत खङ्गः ।