कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 661 of 876
Read in context६८ कथासरित्सागर कान्तयान्तं किलापूर्णतुङ्गस्तनतटान्तया । लावण्याम्बुतरङ्गिण्या हृत स्यादालमनः प्रभुः ॥६५॥ शुश्रुमे किं न शर्वोऽपि पुरा दृष्ट्वा तिलोत्तमाम् । भ्रात्रा गृहीत्वा रक्षितामृतमेभ्यनिल तिलम् ॥६६॥ तपश्च मेनकां दृष्ट्वा विश्वामित्रो न किं जहौ । शर्मिष्ठा रूपशोभाञ्च ययातिर्नाप्तिवान् जराम् ॥६७॥ अतो विद्याधरयुवा नैवायमपराध्यति । त्रिजगत्क्षोभशक्तेन रूपेणाप्सरसा हृतः ॥६८॥ इयं तु स्वर्षेषु पापा हीनासक्तापराधिनो । प्रवेषित सुरान् हित्वा मयायमिय नन्दने ॥६९॥ इत्यालोच्य विमुञ्चैन विद्याधरकुमारकम् । अहल्याकामुक¹ सोऽस्यै शापमप्सरसे ददौ ॥७०॥ पापे प्रयाहि मानुष्य प्राप्य चायोनिजां सुताम् । दिव्यं कृत्वा च कर्तव्यमेष्यसि द्यामियामिति ॥७१॥ अत्रान्तरे च सा तस्य राज्ञस्तक्षशिलापुरि । राज्ञी कलिङ्गदत्तस्य तारावत्या ययावृतुम् ॥७२॥ तस्या सुरभिदत्ता सा शक्रशापच्युताप्सराः । सम्बभूवोदरे देव्या देहसौन्दर्यदायिनी ॥७३॥ तया च नभसो भ्रष्टां ज्वालां वेदीं ददर्श सा । तारावत्ता किल स्वप्ने प्रविशन्तीं निजोदरे ॥७४॥ प्रातश्चावर्णयत्स्वप्नं भर्त्रे तं सा सविस्मया । राजे कलिङ्गदत्ताय सोऽपि प्रीतो जगाद ताम् ॥७५॥ देवि ! दिव्या पतन्त्येव शापान्मानुष्ययोनिषु । तन्नानेव विजातीयः कोऽपि गर्भं तवार्पितः ॥७६॥ विचित्रसदसत्कर्मनिबद्धाः सञ्चरन्ति हि। जगत्त्रयस्त्रिजगत्यस्मिन् शुभाशुभफलाप्तये ॥७७॥ ―――― १ स्वयमहुल्या कामुकोऽपि सुरभिदत्तां शशापेति व्यङ्ग्यमिदं विशेषनम् ।