BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 663 of 876

Read in context
Page 663

११० कथासरित्सागर इत्युक्ता भूभृता राज्ञी सा प्रसङ्गादुवाच तम्। सत्यं कर्मैव बलवद् भोगदायि शुभाशुभम् ॥७८॥ तथा चेदमुपोद्घातं श्रुतं वक्ष्यत्र ते शृणु। राज्ञो धर्मदत्तस्य कथा अभवद्धर्मदत्ताख्यः कौशलाधिपतिर्नृपः ॥७९॥ नागश्रीरिति तस्यासीद्राज्ञी या पतिदेवता। भूमावरुन्धती ख्याता रूपेणर्याप सतीधुरम् ॥८०॥ काले गच्छति तस्यां च दम्यां तस्य च भूपतेः। अहमेषा समुत्पन्ना दुहितारिहन्तूसूदन ॥८१॥ ततो मय्यतिबालायां देव सा जननी मम। अकस्मात्पूर्वजातिं स्वां स्मृत्वा स्वपतिमब्रवीत् ॥८२॥ राजन्नकाण्ड एवाद्य पूर्वजन्म स्मृतं मया। अप्रतीये तवनाख्यातमाख्यातं मृत्यवे च मे ॥८३॥ अनुत्थितं स्मृता जातिः स्यादाख्यातेव मृत्यवे। इति प्राहुरतो देव मम्यधीव विषादिता ॥८४॥ इत्युक्तः स तथा पत्न्या राजा तां प्रत्यभाषत। प्रिये ! मयापि प्राग्जन्म त्वयेव सहसा स्मृतम् ॥८५॥ सममेवाद्य तावत्स्वं कथयिष्याम्यहं च ते। यदस्तु कोऽन्यथाकर्तुं शक्तो हि भवितव्यताम् ॥८६॥ इति सा प्रेरिता तेन भर्त्रा राज्ञी जगाद तम्। निर्बन्धो यदि ते राजन् शृणु तर्हि वदाम्यहम् ॥८७॥ इहैव देशे विप्रस्य माधवाख्यस्य कस्यचित्। गृहेऽहमभवं दासी सुवृत्ता पूर्वजन्मनि ॥८८॥ देवदासाभिधानश्च पतिरत्र ममाभवत्। कस्याप्येकस्य वणिजः साधुः कर्मकरो गृहे ॥८९॥ तावावामवसायात्र कृत्वा गेहं निजोचितम्। स्वस्वस्वामिगृयानीवपक्वान्नकृतवर्त्तनी ॥९०॥ वारिधानी च कुम्भश्च मार्जनी मञ्चकस्तथा। अहं च मत्पतिश्चेति युग्मत्रितयमेव नौ ॥९१॥ १ वारिधानी कुम्भश्चेति एकं युग्मम् मार्जनी मञ्चकश्चेति द्वितीयम्, अहं पतिश्चेति तृतीयम्।

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 663 of 876 · BharatKosha