BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 671 of 876

Read in context
Page 671

६१८ कथासरित्सागर

किञ्च सत्त्वाधिकं कर्म देवि यन्नाम यादृशम्। फलाय तद्वत सत्त्वमनुधावन्ति सम्पदः॥१३४॥ तथा च शथयाम्यत्र शृणु चित्रामिमां कथाम्।

राज्ञो विक्रमसिंहस्य हयोर्वाह्यप्रबोध कथा

अस्तीह भुवनख्यातावन्तीपूज्जयिनी पुरी॥१३५॥ राजते सितहर्म्यैर्य्या महाकालनिकासभूः। सस्सेवारससम्प्राप्तकैलासशिखरैरिव ॥१३६॥ सच्चक्रवर्त्तिपानीयं प्रविशद्वाहिनीशत। यदामोगोग्धिषगम्भीरः सपक्षक्ष्माभृद्वाधितः ॥१३७॥ तस्यां विक्रमसिंहाख्यो बभूवान्वर्य्याख्यया। राजा वैरिमुगा यस्य नैवासत्सम्मुखाः क्वचित् ॥१३८॥ स च निष्प्रतिपक्षत्वावनाप्तसमरोत्सवः। अस्त्रेषु बाहुवीर्ये च सामर्षोऽस्तरतप्यत ॥१३९॥ अथ सोऽमरगुप्तेन तदभिप्रायवेदिना। कथान्तरे प्रसङ्गेन मन्त्रिणा जगदे नृपः॥१४०॥ देव दोर्दण्डदर्पेण शस्त्रविद्यामदेन च। आशंसतामपि रिपून् राज्ञां दोषो न दुर्लभः॥१४१॥ तथा च पूर्वं बाणेन युद्धयोग्यमरिं हरः। दर्पाद् भुजसहस्रस्य तावदाराध्य याचितः ॥१४२॥ यावत्ताप्ततथाभूततद्वरः स मुरारिणा। दैवेन वैरिणा संख्ये लूनबाहुवनः कृतः ॥१४३॥ तस्मात्कथापि कर्त्तव्यो नासन्तोषो युधं बिना। कांक्षणीया न चानिष्टो विपक्षोऽपि कदाचन ॥१४४॥ शस्त्रशिक्षा स्ववीर्यं च दर्शनीयं शवेह चेत्। योग्यभूमावटव्यां तन्मृगयायां च दर्शय ॥१४५॥ राज्ञां चाखेटकमपि व्यायामाविकृते मतम्। युद्धाध्वनि न शस्यन्ते राजानो ऽकृतश्रमाः ॥१४६॥ मारव्याघ्र मृगा दुष्टा शून्यमिच्छन्ति मेदिनीम्। तेन ते नृपतेर्वध्या इत्यप्याखेटमिष्यते ॥१४७॥