BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 681 of 876

Read in context
Page 681

६१६ कथासरित्सागर इत्युक्त्वा मामयं विप्रो गत्वा तस्यास्तदा रहः। वणिग्वधू ननान्दुस्तद्यथावस्तु न्यवेदयत् ॥१९४॥ अन्येद्यु कृतसंवित्त्व सा ननान्द्रा समेत्य ताम्। प्रावेशयद् भ्रातृजायां तत्र देवगृहान्तरे ॥१९५॥ रात्रान्तःस्थितयोनों च मध्यादेतं तदैव सा। मित्र मे भ्रातृजायायास्तस्या वेषमकारयत् ॥१९६॥ कृततद्वेषमेनं च गृहीत्वा नगरान्तरम्। भ्रात्रा सहाविशद् गेहं कृत्वा नः कार्यसंविदम् ॥१९७॥ अह च निर्गत्य सतस्तया पुरुषवेषया। वणिग्वध्वा सम प्राप्त क्रमेणोज्जयिनीमिमाम् ॥१९८॥ सद्यनान्दा च सा रात्रौ तदहः सोत्सवास्ततः। मत्तसुप्तजनाद् गेहादनेन सह निर्गता ॥१९९॥ ततश्चाय गृहीत्वा तां विप्रश्छन्न प्रयातकैः। आगतो नगरीमेतामचावां मिलिताविह ॥२००॥ इत्यावाभ्याममे भार्ये प्राप्ते प्रत्यग्रयोवने। ननान्दृभ्रातृजाये ते स्वानुरागसमर्पिते ॥२०१॥ अतो निवासे सर्वत्र नैव शङ्कामहे वयम्। कस्याश्वसिति चेतो हि विहितस्वैरसाहसम् ॥२०२॥ तदवस्थामहेतोश्च विसार्थ च रहुधिधरम्। आवां मन्त्रयमाणौ ह्वौ दुष्टौ देवेन दूरतः ॥२०३॥ दृष्ट्वानाय्य च संयम्य स्थापितौ चारचक्षुषा। अथ पृष्टौ च वृत्तान्तं स चैष कथितो मया ॥२०४॥ देव प्रमवतीदामीमित्यनेनोदिते सदा। राजा विक्रमसिंहस्तो विप्रो द्वावप्यभाषत ॥२०५॥ तुष्टोऽस्मि वो भयं मामूविहैव पुरि तिष्ठतम्। अहमेव च दास्यामि पर्याप्तं युवयोध॑नम् ॥२०६॥ इत्युक्त्वा स ददौ राजा यथेष्टं जीवनं तयोः। तौ च भार्यान्वितौ तस्य निकटे तस्यतु सुखम् ॥२०७॥ इत्थं श्रियासु निवसन्तमपि यासु तासु पुसां श्रियः प्रबलसत्त्वबहिष्कृतासु। एवं च साहसमनेष्वथ बुद्धिमत्सु सन्तुष्य दाननिरताः क्षितिया भवन्ति ॥२०८॥