BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 765 of 876

Read in context
Page 765

७८ कथासरित्सागर

सा दृष्ट्वैवानिरुद्धं समुपा साक्षादुपागतम्। अमृतांशुमिवाम्भोधिबेला नाङ्गेष्ववर्तत ॥२९॥ ततस्तेन समं तस्यौ सखीवत्तेन तत्र सा। जीवितेनेव मूर्तेन वल्लमेन यमासुखम् ॥३०॥ सम्मानात् पितर चास्याः शुद्ध बाणं जिगाय सः। अनिरुद्धः स्ववीर्येण पितामहबलेन च ॥३१॥ ततो द्वारवतीं गत्वा तावभिनन्दतू उभौ। उषानिरुद्धौ भ्राजते गिरिजाशङ्कराविव ॥३२॥ इत्युपायाः प्रियोऽङ्गेव मेलितश्चित्रलेखया। त्वं सप्रभाबाप्यधिका ततोऽपि सखि मे मता ॥३३॥ तममानय वत्सैशमिह मास्म चिरं कृथाः। एव कलिङ्गसेनातः श्रुत्वा सोमप्रभाब्रवीत् ॥३४॥ चित्रलेखा सुरस्त्री सा समत्क्षिप्यानयत्परम्। मानुषी किं विदध्यात् परस्परधि कुर्वती ॥३५॥ सत्वं नयामि तत्रैव यत्र वत्सेश्वरः सस्ति। प्राप्तप्रसेनजित तं से दर्शयित्वा त्वदर्शिनम् ॥३६॥ इति सोमप्रभोक्ता सा तथेत्युक्त्वा तया सह।

कलिङ्गसेनाया कौशाम्बीयात्रा

कलिङ्गसेना सस्कृप्तं मायायन्त्रविमानकम् ॥३७॥ तदेवारुह्य नमसा सकोपा सपरिच्छदा। हृतप्रास्थामिका प्रायात् पित्रोरविदिता ततः ॥३८॥ न हि पश्यति तुङ्गं वा दवभ्रं वा स्त्रीजनोऽग्रतः। स्मरेण नीतः परमां धारां वाजीव सादिना ॥३९॥ श्रावस्तीं प्राप्य पूर्वं च तं प्रसनजित नृपम्। मृगयानिर्गतं दूराज्जरा पाण्ड ददर्श सा ॥४०॥ श्वाद् व्रजास्मादिति तां दूरादिव निषेधतः। उडूयमानेन मुहुश्चामरेणोपलक्षिताम् ॥४१॥ सोऽयं प्रसनजिद्राजा पित्रास्मै स्वां प्रदिसिता। पश्येति सामप्रभया दर्शितं सोपहामया ॥४२॥