कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 791 of 876
Read in context७२६ कथासरित्सागर यन्मया सहसा देव्याः प्रतिज्ञा पुरतः कृता । विज्ञानं नात्र सादृक्ष्मे सम्यककिञ्चिच्च विद्यते ॥१३३॥ अन्यत्रेव च न व्याजः कृतः राजगृहे क्षमम् । ज्ञात्वा जातु हि कुर्वीरन्निग्रहं प्रभविष्णवः ॥१३४॥ एकस्तत्राभ्युपायः स्याद्यत्सुहृन्मेऽस्ति नापितः । ईदृग्विज्ञानकुशलः स जतुर्यादिहोद्यमम् ॥१३५॥ इत्यालोच्यैव सा तस्य नापितस्यान्तिकं ययौ । तस्मै मनीषितं सर्वं तच्छशंसांर्थसिद्धिदम् ॥१३६॥ तत स नापितो वृद्धो धूर्तश्चैवमचिन्तयत् । उपस्थितमिदं विष्ट्या लाभस्थानं ममाधुना ॥१३७॥ सन्न वाच्या नवा राजवधू रक्ष्या तु सा यतः । दिव्यदृष्टिः पिता तस्य सर्वं प्रख्यापयेदिदम् ॥१३८॥ विदितेऽप्येतौ तु नृपतेर्देवी सम्प्रति मुञ्चतु । क्रूरहस्य-सहाये हि भृते मरयामते प्रभुः ॥१३९॥ संश्लेष्य काले राजे च वाच्यमेतत्तथा मया । यथा स्यादुपजीव्यो मे राजा सा वणिककन्यका ॥१४०॥ एवं च नातिपापं स्याद् भवेद्दीर्घा च जीविका । इत्यालोच्य स तां प्राह नापितः कूटतापसीम् ॥१४१॥ अम्ब ! सर्वं करोम्येतत्किं तु योगबलेन चेत् । एषा राज्ञो नवा भार्या हन्यते तन्न युज्यते ॥१४२॥ यद्वा कदाचिद्राजा हि सर्वानस्मान् विनाशयेत् । स्त्रीहत्या पातकं च स्यात्पिता च मुनिः शपेत् ॥१४३॥ तस्माद् बुद्धिवलेनैषा राज्ञो विश्लेष्यते परम् । येन देवी सुखं तिष्ठेदर्थप्राप्तिर्भवेच्च नः ॥१४४॥ एतच्च न कियत्क्षिप्रं हि न बुद्ध्या साधयाम्यहम् । प्रज्ञानं मायरूपं च श्रूयतां वक्ष्यामि ते ॥१४५॥ अभूदस्य पिता राज्ञो दुःशीलो दुष्टवल्लभः । अह च दासस्तस्याहं गतः स्वाक्षिप्तकर्मकृत् ॥१४६॥ स कदाचिदिह भ्रान्त्या भार्यामन्तः मामकीम् । तस्यां तस्य सुरूपायां तरुण्या च मनो ययौ ॥१४७॥