कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 819 of 876
Read in context४६० कथासरित्सागर निदर्शनं चेदत्रास्ति तन्मे कथय सम्मते। इति योगेश्वरेणोक्त स्माह यौगन्धरायणः ॥१०५॥ उत्सन्ननकुलमूषकमार्जारणां कथा अस्ति मित्र तथा चात्र कथामाख्यामि ते श्रृणु। विदिशानगरीबाह्ये न्यग्रोधोऽभूत्पुरा महान् ॥१०६॥ चत्वारः प्राणिनस्तत्र वसन्ति स्म महातरौ। नकुलालूकमार्जारमूषकाः पृथगालयाः ॥१०७॥ भिन्ने भिन्ने बिले मूल आस्तां नकुलमूषकौ। मार्जारो मध्यभागस्थे तरोर्महति कोटरे ॥१०८॥ उलूकस्तु शिरोभागे नान्यलभ्ये लतास्ये। मूषकोऽत्र त्रिभिर्वध्यो मार्जारिण त्रयोऽपरे ॥१०९॥ अभ्याय मार्जारभयान्मूषको नकुलस्तथा। स्वभावेनाप्युलूकश्च परिभ्रेमुर्निशि त्रयः ॥११०॥ मार्जारश्च दिवारात्रौ निर्भयः प्रभ्रमन्मसौ। तत्रासन्ने यवक्षेत्रे सदा मूषकलिप्सया ॥१११॥ येऽप्येऽपि युवतया जग्मुस्तत्स्वकालेऽन्नाभिवाञ्छया। एकदा लुब्धकस्तत्र चण्डालः कश्चिदाययौ ॥११२॥ स मार्जारपदश्रेणिं दृष्ट्वा तत्क्षेत्रगामिनीम्। तद्वधायामितः क्षेत्रं पाशान् वत्त्वा ततो ययौ ॥११३॥ तत्र रात्रौ च मार्जारः स मूषकजिघांसया। एत्य प्रविष्टस्तत्पाशैः क्षेत्रे तस्मिन्नबध्यत ॥११४॥ मूषकोऽपि ततोऽन्नार्थी स तत्र निभृतागतः। बद्धं तं वीक्ष्य मार्जारं जहर्ष च ननर्त च ॥११५॥ यावद् विशति तत्क्षेत्रं दूरादेवैष तर्र्तमा। तत्र तौ तावदायातावृलूकनकुलावपि ॥११६॥ दृष्टमार्जारबन्धौ च मूषकं लब्धुमैच्छताम्। मूषकोऽपि च तद्दृष्ट्वा दूराद् खिन्नो व्यचिन्तयत् ॥११७॥ नकुलोलूकभयदं मार्जारं सन्धये यदि। बद्धोऽप्येकप्रहारेण शत्रुममिमं मारयेत् ॥११८॥