BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 87 of 876

Read in context
Page 87

५२ कथासरित्सागर

इत्युक्त्वैव गते व्याडौ दातुं तां गुरुदक्षिणाम्। तदवामीय दत्ता म योगनन्देन मन्त्रिणा ॥११८॥ अभोक्तः स मया राजा ब्राह्मये हारितोऽपि ते। राज्यं नैव स्थिरं मन्ये शकटाले पदस्थिते ॥११९॥ तस्मान्नाधाय युक्त्यैनमिति मन्त्रे मयोदिते। योगनन्दोऽन्धकूपान्तः शकटालं तमक्षिपत् ॥१२० ॥ किं च पुत्रंश्च तस्य सन्नैव क्षिप्तवानसौ। जीवन् द्विजोऽमुनादग्ध इति दोषानुकीसनात् ॥१२१॥ एकः शरावः सक्तूनामेकः प्रत्यहमम्भसः। शकटालस्य तत्रान्तः सपुत्रस्य न्यधीयत ॥१२२॥ स चोवाच ततः पुत्रानमीभिः सक्तुभिः सुताः। एकोऽपि कृच्छ्राद्वर्तेतबहूनां तु कथेव का ॥१२३॥ तस्मात्समश्नात्वेकः प्रत्यहं समशनंमूनू। यः शक्तो योगनन्दस्य कर्तुं वैरप्रतिक्रियाम् ॥१२४॥ त्वमेव शक्तो भुङ्क्ष्वेति पुत्रास्तमब्रुवन्। प्राणभ्योऽपि हि धीराणां प्रिया शत्रुप्रतिक्रिया ॥१२५॥ ततः स शकटालस्तैः प्रत्यहं सक्तुवारिभिः। एक एवाकरोद् वृत्तिं कष्टं क्रूरा जिगीषवः ॥१२६॥ अनुवृत्त्या चित्तमप्राप्य विस्रम्भं प्रभविष्णुषु। न स्वेच्छः स्पृहतव्यमात्मनो भूतिमिच्छता ॥१२७॥ इति पाञ्चिन्तयतस्तत्र शकटालोऽन्धकूपगे। तनयानां क्षुधार्तानां पश्यन्प्राणोद्गममव्यथाम् ॥१२८॥ ततः सुतशतं तस्य पश्यतस्तद्व्यपद्यत। तत्करङ्कैर्वृतो जीवन्नतिष्ठत्स च केवलः ॥१२९॥ योगनन्दश्च साम्राज्ये बद्धमूलोऽभवत्ततः। व्याडिरभ्याययौ तं च गुरवे दत्तदक्षिणः ॥१३०॥ अभ्येत्यैव च सोऽवादीच्चिरं राज्यं सुखंस्तु ते। आमन्त्रितोऽस्मि गच्छामि तपस्तप्तुमहं क्वचित् ॥१३१॥ तच्छ्रुत्वा योगनन्दस्तं बाष्पकण्ठोऽभ्यभाषत। राज्यं मे भुङ्क्ष्व भोगांस्त्व भुक्त्वा मां मास्म गा इति ॥१३२॥