कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 99 of 876
Read in context६४ कथासरित्सागरे वाचमित्या च तं लब्धमेकान्ते शिववर्मणः । शशंस बधनिर्देशं भोगवर्मा विधेयताम् ॥६९॥ शिववर्माऽप्यवोचत्तं सामन्तं मन्त्रिसत्तमः । स्वं व्यापार्य मां नो षश्छिन्द्यादात्मानमात्मना ॥७०॥ सच्छ्रुत्वा विस्मयाविष्टो भोगवर्मा जगाद तम् । किमेतद् ब्रूहि मे विप्र ! शापितोऽसि न वक्षि चेत् ॥७१॥ अथ बक्ति स्म तं मन्त्री हृष्यन् यत्र भूपतेः । तत्र द्वादश वर्षाणि देशे दद्यो न वर्षति ॥७२॥ तच्छ्रुत्वा मन्त्रिणि श्लाघे भोगवर्मा व्यचिन्तयत् । दुष्टः स राजा देशस्य नाशमस्माकमिच्छति ॥७३॥ किं हि तत्र न सन्त्येव वधका गुप्तगामिनः । तस्मान्मन्त्री म वध्योऽसौ रक्ष्यः स्वात्मबवादपि ॥७४॥ इति सम्भ्रथ दत्वा च रक्षका भोगवर्मणा । शिववर्मा ततो देशात्प्रोषितोऽभूत्ततः क्षणात् ॥७५॥ एवं प्रत्याययो जीवन्स मन्त्री प्रज्ञया स्वया । शुद्धिश्वास्यान्द्यतो जाता नहि धर्मोऽन्यथा भवेत् ॥७६॥ इत्थं तवापि शुद्धिः स्यात्तिष्ठ तावद् गृहे मम । कार्यायन नृपोऽप्यद्य सानुतापो भविष्यति ॥७७॥ इत्युक्तः शकटालम् अच्छोऽहं तस्य वेश्मनि । प्रतीक्षमाणोऽवसरं तान्यहान्यत्यवाहयम् ॥७८॥ तस्याथ योगनन्दस्य कालभूते ! कदाचन । पुत्रो हिरण्यगुप्ताख्यो मृगयाय गतोऽभवत् ॥७९॥ अश्ववेगात्प्रमातस्य क्यञ्चिद्दूरमन्तरम् । एकाकिनो वनं तस्य वासरः पर्यहीयत ॥८०॥ ततश्च तां निशां गतुं वृक्षमारेहति स्म सः । क्षणात्तत्र चारोहदृक्षं सिंहम् भीपितः ॥८१॥ स दृष्ट्वा राजपुत्रं तं भीतं मानुषभाषया । मा भैषीर्मम मित्रं त्वमित्युक्त्वा निर्भय व्यधात् ॥८२॥ विस्रम्भाद्वशवाश्यं राजपुत्रोऽथ सुप्तवान् । ऋक्षस्तु जाग्रदेवाशीदथ सिंहोऽथ सोऽब्रवीत् ॥८३