कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 1072 of 1079
Read in context[Page Header] २१० कथासरित्सागर
[Body Text] विद्याधरेण पादाग्राच्च प्राप्तो धूर्जटे पुरा। तस्मान्मया च बालत्वादत्तो यक्ष्णूतपादपः ॥९७॥ सोऽयं सद्रत्ननिचितो दत्तो वामधुना मया। इत्युक्त्वा मां सभार्यं सा तत्रैव यमुनाव्यगात् ॥९८॥ अथाहं प्राप्तदयितो निर्विण्णो वनवासतः। वियोगभीरुस्त्वरमथ स्वं देशं प्रति सोत्सुकः ॥९९॥ ततः प्रवृत्तश्चागन्तुमहं प्राप्याम्बुधेस्तटम्। सख्ये वणिक्प्रवहणे भार्यामारोपयं पुरः ॥१००॥ स्वयं चारोढुमिच्छामि यावत्तावत्समीरणः। मुनिघातात्समुत्पोतं तं दूरमहरन्मम ॥१०१॥ पोतेन हृतभार्यस्य मोहोऽपि विनिपत्य मे। स्तम्भश्छिद्र इवाहार्षीच्चेतनां विह्वलात्मनः ॥१०२॥ ततोऽत्र तापसः कश्चिदागतो वीक्ष्य मूर्च्छितम्। कृपया मां समाश्वास्य नीतवानाश्रमं शनैः ॥१०३॥ पृष्ट्वा चामं यथावृत्तं श्रुत्वा चापविजृम्भितम्। बुद्ध्वा च सावधिं शापं धृतिबन्धं व्यधात् स मे ॥१०४॥ ततोऽम्भो भग्नवहनोत्तीर्णं प्राप्य वणिग्वरम्। सहायं मिलितोऽभूवमन्विष्यंस्तां प्रियां पुनः ॥१०५॥ शापक्षयाद्यथा दत्तहस्तामम्ब्वध दुर्गमान्। तांस्तानुलङ्घयन् देशान् दिवसांश्च बहूनहम् ॥१०६॥ क्रमान्न चाद्याक्षपुरं सम्प्राप्येदं धृतो मया। खं वत्सश्वरसद्मयुक्तमाणिक्यिहागतः ॥१०७॥ दृष्टे च दूराद्धस्तिन्यां विजितादबयुगे त्वयि। उज्झितः स मया शापभारो सध्वन्दरात्मना ॥१०८॥ क्षणाच्च सम्मुखायातामद्राक्षमिह तां प्रियाम्। यन्मां वणिग्भिरानीतां तेन पोतेन साधुभिः ॥१०९॥ ततस्तयाहं यमुनाप्रत्तसद्रत्नहस्तया। मिलितस्त्वत्प्रसादेन तीर्णशापमहाप्लवः ॥११०॥ अतः प्रणन्तुं त्वामस्मि वत्सराजमुपागतः। निवृतो यामि चदानीं स्वदेशं दयितायुतः ॥१११॥