BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 127 of 1079

Read in context
Page 127

१४ कथासरित्सागर सर्वत्रान्तःपुरे चैतत्प्रसिद्धमिह गीयते। इत्युक्तः स तया राजा दध्यौ च विममर्श च ॥२९॥ गत्वा चैकैकशो राज्ञीरन्याः पप्रच्छ ताः क्रमात्। ताश्च तस्मै तथैवोचुः सर्वा रक्षितकथवा ॥३०॥ ततः स मतिमान् राजा जितक्रोधो व्यचिन्तयत्। तयो सम्भाष्यते नैतत्प्रवादश्चायमीदृशः ॥३१॥ तदा निश्चित्य कार्यो मे प्रतिमेषो न कस्यचित्। युक्त्या तु परिहार्यौ तौ सम्प्रत्यस्तमवेक्षितुम् ॥३२॥ इति निश्चित्य सोऽन्येद्युरास्थानेऽन्तःपुराधिपम्। सुरक्षितं तमाहूय कृतकोपं समभ्यधात् ॥३३॥ ब्रह्महत्या त्वया पाप कृतेत्यवगतं मया। तत्त्वामकृतसत्तीर्थयात्रं न द्रष्टुमुत्सहे ॥३४॥ तच्छ्रुत्वा च समुद्भ्रान्तः ब्रह्महत्या कुतो मया। कृता देवेति जल्पन्तं स राजा पुनरब्रवीत् ॥३५॥ मा स्म धाष्ट्र्यं कृथा गच्छ काश्मीराञ्त्यापनाशनान्। यत्र तद्विजयक्षेत्रं नन्दिक्षेत्रं च पावनम् ॥३६॥ वाराहं यत्र च क्षेत्रं ये पूताश्चक्रपाणिना। धत्ते नाम वितस्तेति वहन्ती यत्र जाह्नवी ॥३७॥ यत्र तन्मण्डपक्षेत्रं यत्र चोत्तरमानसम्। तत्तीर्थयात्रापूतो मां पुनर्द्रक्ष्यसि नान्यथा ॥३८॥ एवमुक्त्वा तमवशं विससर्ज सुरक्षितम्। स युक्त्या तीर्थयात्रायां दूरं वीरभुजो नृपः ॥३९॥ छतो गुणवरावेश्म पूर्वं तस्या जगाम सः। सस्नेहश्च सकोपश्च सविमर्शश्च भूपतिः ॥४०॥ तत्र सा खिन्नमनसं तं दृष्ट्वापृच्छदादृता। आर्यपुत्र किमद्यैवमकस्माद् दुर्मनायसे ॥४१॥ तच्छ्रुत्वा स महीभृत्तामेवं कृतकमभ्यधात्। अद्याग्य महाभागी देवी मां कोऽप्यभाषत ॥४२॥ राजन् गुणवरा देवी मासं कञ्चन भूगृहे। स्थापनीया त्वया भाव्यं स्वयं च ब्रह्मचारिणा ॥४३॥