BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 213 of 1079

Read in context
Page 213

१८४ कथासरित्सागर एकदा च परित्यागसेनं तं जनकं नृपम्। विज्ञाप्य सानुजः प्रायात्पुनर्दिग्विजयोय सः ॥१९१॥ खड्गप्रभावाजिरखा च पृथ्वीं शूरस्नो महाभुजः। आययौ हेमहस्त्यश्वरत्नान्याहृत्य भूभुजाम् ॥१९२॥ अवाप नगरीं तां च निजां विजितया भयात्। अमुयात इवादूभूतसन्यधूलिनिभाद् भुवा ॥१९३॥ प्रविश्य राजधानीं च पित्रा प्रत्युद्गताऽथसः । जननीं नन्दयामास सानुजोऽर्धिकसङ्गमाम् ॥१९४॥ सम्मान्य राजलोकं च स्वभार्यास्विजनान्वितः। तत्रेभ्वीबरसेनस्तत्प्रमोदेनामयदहिनम् ॥१९५॥ अन्येद्युस्तत्करद्वारेणार्पयित्वा च मेदिनीम्। पित्रे स राजपुत्रः स्वामकस्माज्जातिमस्मरत् ॥१९६॥ तत सुप्तप्रबुद्धामो जनकं तमुवाच च। मया जातिः स्मृता तात सविद्य शृणु वच्मि सः ॥१९७॥ अस्ति मुक्तापुर माम सानौ हिमवत पुरम्। तत्रास्ति मुवतसेनाख्यो राजा विद्याधरेश्वरः ॥१९८॥ कम्बुवत्यभिधानायां देव्यां तस्य सुतौ क्रमात् ॥ जातौ द्वौ पद्मसेनश्च रूपसेनश्च सद्गुणौ ॥१९९॥ पद्मसेने तयो प्रेम्णा स्वय वृतवती पतिम्। कन्यादित्यप्रभा नाम विद्याधरवरात्मजा ॥२० ०॥ तद्वधूक तयास्यापि माम्ना चन्द्रवती स्वयम्। एष्यावृणीत कामार्ता तं विद्याधरकन्यका ॥२०१॥ द्विभार्यः स तथा पद्मसेनो नित्यमखिद्यत। सपलीसेर्येयादित्यप्रमया भार्यया तया ॥२०२॥ ईर्ष्यान्धिभार्याकलह सोढु शक्नोमि नान्बहम्। तपोबनाय गच्छामि निर्वेदस्यास्य शान्तये ॥२०३॥ ततात दहि मेऽनुज्ञामिति निर्वन्धतो मुहुः। जनक पद्मसेन स्व मुक्तासेने जगाद सः ॥२०४॥ सोऽपि तं तद्ग्रहं दृष्ट्वा समायंमक्षपत्पिता। किं ते तपोवनं गत्वा मत्र्यंलोकमवाप्नुहि ॥२० ५॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · Page 213 of 1079 · BharatKosha