कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 217 of 1079
Read in context१८४ कथासरित्सागर इत्येतां गोमुखो रम्यां कथयित्वा कथां पथि। नरवाहनदत्तं समुवाच सचिवः पुनः ॥२२०॥ इत्थं स्यान्महतामेव महाक्लेशस्तथोदयः। अन्येषां तु कियान्देवे क्लेशो वाप्युदयोऽपि वा ॥२२१॥ त्वं तु रत्नप्रभादेवीविद्याशक्त्यानुपालितः। कर्पूरिकां राजसुतामक्लेशात्तामवाप्स्यसि ॥२२२॥ इति नरवाहनदत्तः श्रुत्वा सुमुखस्य गोमुखस्य मुखात्। प्राप्तश्रमत्पथि सस्मिन्नसावपरिक्षमं स तत्सहितः ॥२२३॥ गच्छंश्च तत्र कलकूजितराजहंसमच्छं सुधासरसशीतलभूरिवारि। चाम्रावलीपनसदाडिमरम्यरोधः सायं सरो विकचवारिजमाससाद ॥२२४॥ तस्मिन्स्नात्वा हिमगिरिसुताकान्तमभ्यर्च्य भक्त्या। कृत्वाहारी सुरभिमधुरास्वादहृद्यैः फलैस्तैः। सख्या सार्धं मृदुकिसलयास्तीर्णशय्याप्रसुप्त- स्त्तत्तीरे तां रजनिमनयत्सोऽत्र वत्सेशसूनुः ॥२२५॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके अष्टमस्तरङ्गः। नवमस्तरङ्गः नरवाहनदत्तस्य स्वप्नदर्शनम् अथ प्रातः सरस्तीरात्तस्मादुत्थाय मन्त्रिणम्। नरवाहनदत्तस्तं गोमुखं प्रस्थितोऽब्रवीत् ॥१॥ वयस्य जाने काप्यद्य रात्र्यन्ते धवलाम्बरा। कुमारी दिव्यरूपी मामेत्य स्वप्नेऽभ्यभाषिदम् ॥२॥ निश्चिन्तो भव वत्स त्वमितः शीघ्रमवाप्स्यसि। अम्भोस्तीरे वनान्तं स्यमाश्चर्यं नगरं महत् ॥३॥ विश्रान्तस्तत्र चाश्वेयात्ताप्य कर्पूरसम्भवम्। पुरं कर्पूरिकां प्राप्स्यस्यथ तां राजकन्यकाम् ॥४॥ इत्युक्त्वा सा तिरोऽभूत्सा प्रबुद्धश्चास्मि तत्क्षणम्। एव तमुक्तवन्तं च प्रीतः प्रोवाच गोमुखः ॥५॥ देवैरनुगृहीतस्त्वं देव किं तेऽस्ति दुष्करम्। तन्निश्चितमाह्लादेन चैव सेत्स्यत्यभीप्सितम् ॥६॥