BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 247 of 1079

Read in context
Page 247

२१८ कथासरित्सागर यन्नाशयो बभुस्तत्र शोभां द्रष्टुमिवागताः। गिरिजोद्वाहदृश्या नो मेरु कैलाससानवः ॥२१५॥ पुनस्तद्वस्त्रकोटीश्च दश दासीशतत्रयम्। स्वलङ्कृतं ददौ सोऽस्मै कृती कर्पूरको नृपः ॥२१६॥ ततस्तस्यो कृतोद्वाहः स कर्पूरिकया सह। नरवाहनदत्तोऽत्र समं प्रीत्येव मूर्त्तया ॥२१७॥ कस्य नाभून्मनःप्रीत्यै स वधूवरयोस्तयोः। सङ्गमो माधवीवल्लीवसन्तोत्सवयोरिव ॥२१८॥ एहि व्रजाव कौशाम्बीमित्यन्येद्युश्च सोऽब्रवीत्। नरवाहनदत्तस्तां कृती कर्पूरिकां प्रियाम् ॥२१९॥ ततः प्रत्यब्रवीत् सा तं यद्येषा तरङ्गगामिना। तेनैव त्वद्विमानेन व्रजामस्त्वरितं न किम् ॥२२०॥ तच्चेत् स्वल्पं तदपरं विस्तीर्णं नौक्याम्यहम्। इह प्राणधराख्यो हि तक्षा यन्त्रविमानकृत् ॥२२१॥ आस्ते देशान्तरायातस्तच्छीघ्रं कारयाम्यवः। इत्युक्त्वा सा प्रतीहारमानाय्य क्षत्तुरादिशत् ॥२२२॥ गत्वा तं यन्त्रतक्षाणं ब्रूहि प्राणधरं महत्। व्योमगामि विमानं नः प्रस्थानायोपकल्पय ॥२२३॥ एवं विसृज्य क्षत्तारं राजे कर्पूरिकाथ सा। चेटीमुखेन पित्रे तां प्रस्थानेच्छां न्यवेदयत् ॥२२४॥ स च मुदंवैव तथाबदायास्यन्नैव भूपतिः। नरवाहनदत्तोऽन्तस्तावदेवमचिन्तयत् ॥२२५॥ तक्षा राज्यधरभ्राता सोऽस्य प्राणधरो ध्रुवम्। राजभीत्या स्वदेशाद्यो विद्रुतस्तेन वर्णितः ॥२२६॥ इत्यस्मिंश्चिन्तयत्येव राज्ञि च क्षिप्रमागते। आगात् प्रतीहारयुतस्तक्षा प्राणधरोऽत्र सः ॥२२७॥ व्यजिज्ञपच्च सुमहद् विमानं कृतमस्ति मे। यन्मानुषसहस्राणि वहत्यद्यावहेलया ॥२२८॥ इत्युक्तवन्तं तक्षाणं साध्वित्युक्त्वाभिपूज्य च। नरवाहनदत्तोऽथ तं पप्रच्छ स सादरम् ॥२२९॥