BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 263 of 1079

Read in context
Page 263

२४४ कथासरित्सागर सिद्धविद्याप्रभावस्तु सहास्माभिर्विजित्य तम्। एष विद्याधराधीशचक्रवर्तित्वमाप्स्यति ॥३२॥ एवं मयेनाभिहिते राजा चन्द्रप्रभोऽब्रवीत्। धन्याः स्मः पुण्यवानेष यथेच्छं नीयतामिति ॥३३॥ ततस्तमामन्त्र्य नृपं तदनुज्ञानमादृ सम्। सूर्यप्रभं स सामात्यं पाताल नीतवान्मयः ॥३४॥ तत्रोपदिश्यैतस्तस्मै स तपांसि तथा यथा। राजपुत्रः स सामात्यो विद्या शीघ्रससाधयत् ॥३५॥ विमानसाधनं तस्मै तथैवोपदिवेश सः। तेन भूतासनं नाम स विमानमुपार्जयत् ॥३६॥ तद्विमानाधिरूढं तं सिद्धविद्यं समन्त्रिकम्। सूर्यप्रभं स पातान्तान्मयः स्वपुरमानयत् ॥३७॥ प्रापय्य पित्रो पार्श्वं च तं जगाद व्रजाम्यहम्। त्वं सिद्धिभोगा भुङ्क्ष्वेह यावदप्याभ्यहं पुन ॥३८॥ इत्युच्चिदानात्सपूज्यो जगाम स मयासुरः। ममन्द विद्यासिद्ध्या च सूनोश्चन्द्रप्रभो नृपः ॥३९॥ सोऽथ सूर्यप्रभो विद्याप्रभावात्सचिवैः सह। नानादेशान् विमानेन सदा बभ्राम लीलया ॥४०॥ यत्र यत्र च या या तमपश्यद्राजकन्यका। तत्र तत्र स्वयं वव्रे सा सा तं काममोहिता ॥४१॥ एका मदनसेनाख्या ताम्रलिप्त्यां महीपतेः। सुता वीरभटाख्यस्य कन्या लोकैकसुन्दरी ॥४२॥ द्वितीया सुभटाख्यस्य तनया चन्द्रिकावती। अपरान्ता१धिराजस्य सिद्धैर्नीत्वोन्मिषत्कान्त्यत् ॥४३॥ काञ्चीनगर्यां नृपतेः कुम्भीराख्यस्य चात्मजा। ख्याता वरुणसेनाख्या तृतीया रूपशालिनी ॥४४॥ १ साम्प्रतं 'तामलुक' इति बङ्गदेशे प्रसिद्धम्। २ 'गोवा' प्रान्तः साम्प्रतं पुर्तगाल साम्राज्येनाधिष्ठितः।