BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 271 of 1079

Read in context
Page 271

२४२ कथासरित्सागर तत्प्राप्ता से सुता स्यानं कर्मणस्त्व तु प्रार्थितः । तत्प्रीयस्व सखा नस्त्वमेष्यामोऽत्राप्यमी वयम् ॥८९॥ इति राज्ञोक्तसन्देशः प्रहस्तो गगनेन सः । गत्वा प्रहरमात्रेण वज्ररात्रमवाप सत् ॥९०॥ तत्र रम्भाय सन्देशमुक्त्वा तेनानुमोदितः । तथवागत्य सोऽवादीद्राज्ञे चन्द्रप्रभाय तत् ॥९१॥ चन्द्रप्रभोऽथ सचिवं प्रभासं प्रप्य शाकलात् । आनाययत्तां रम्भस्य पार्श्वे तारावलीं सुताम् ॥९२॥ ततो ययौ विमानेन सह सूर्यप्रभेण सः । राज्ञा वीरभटेनापि सर्वैश्चान्यै सुपूजितः ॥९३॥ वज्ररात्रं च सम्प्राप मार्गोन्मुखजनाकुलम् । रम्भेणाभ्युद्गतस्तस्य राजधानीं विवेश सः ॥९४॥ तत्र रम्भोऽप्यसौ क्लृप्तविवाहप्रक्रियोत्सवः । असङ्ख्यहस्त्यश्वरत्नादि दुहितुर्ददौ ॥९५॥ जामातरं च स तथा सूर्यप्रभमुपाचरत् । यथा यस्य निजा भोगा सर्वे विस्मृतिमाययुः ॥९६॥ यावच्च तत्र ते तिष्ठन्त्युत्सवानन्दिताः सुखम् । तावद्रम्भान्तिकं काञ्चीनगर्या दूत आययौ ॥९७॥ स तस्माच्छ्रुतसन्देशो रम्भश्चन्द्रप्रभं नृपम् । प्राह काञ्चीश्वरो राजा कुम्भीराख्योऽस्ति मेऽग्रजः ॥९८॥ तेनाप्त प्रेषितो मेऽद्य दूतो वक्तुमिदं वचः । मम सूर्यप्रभेणाद्य सुता नीता ततस्त्व ॥९९॥ कृतं चाद्य त्वया सख्यं तै सहति मया श्रुतम् । तन्ममापि तथैव त्वं सख्यं तैः सह साधय ॥१००॥ आयान्तु ते मम गृहं यावत्सूर्यप्रभाय ताम् । स्वहस्तेनार्पयामीह सुतां वरणसेनिकाम् ॥१०१॥ इत्येपाम्यर्थना तस्य क्रियतामिति वादिनः । रम्भस्य शुश्रुवे चन्द्रप्रभो राजा तदा वचः ॥१०२॥ प्रहस्तं प्रेष्य च क्षिप्रं शाकलात्तामनाययत् । पुराद्व्रजसेनां स कुम्भीरस्यान्तिकं पितुः ॥१०३॥