कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 31 of 1079
Read in context१८ कथासरित्सागर सगर्भा लावण्योद्भूतसविशेषद्युतिस्तथा। सत्यं हुताशमासाद्य मेजेऽन्तःपुररत्नताम् ॥११६॥ विद्याकल्पितसत्पक्षविमानेन नभस्तले। बभ्राम च तयाभूतविलसद्गर्भदोहदा ॥११७॥ प्राप्ते च समये तस्या देव्या कन्याजनिष्ट सा। पर्याप्तं वर्णनं यस्या जन्म गौरीप्रसादतः ॥११८॥ नरवाहनदत्तस्य भार्यैषा भाविनीति वाक्। तदाद्यापि हरदेशवचःसंवादिनी दिवः ॥११९॥ ततो राजा सुतोत्पत्तिनिर्वेशेऽकृष्टनोत्सवः। तां स हेमप्रभोऽकार्षीन्नाम्ना रत्नप्रभां सुताम् ॥१२० ॥ स्वविद्यासंस्कृता सा च तस्य रत्नप्रभा पितुः। अवर्धत गृहे दिक्षु प्रकाशस्तूदपद्यत ॥१२१॥ ततः स राजा तं कर्महरं वज्रप्रभं सुतम्। कृतदारक्रियं कृत्वा यौवराज्येऽभिषिक्तवान् ॥१२२॥ विन्यस्तराज्यभारश्च तस्मिन्नासीत्स निर्वृतः। सुताविवाहचिन्ता तु तस्यैकामूसदा हृदि ॥१२३॥ एकदा सोऽन्तिकासीनां प्रदेवीं बोध्य तां सुताम्। राजाप्रवीदमङ्गारप्रभां वशी समीपगाम् ॥१२४॥ कुलालङ्कारभूतापि पश्य देवि जगत्त्रये। कन्या नाम महद्दुःखं धिग्गहो महतामपि ॥१२५॥ विनीताप्याप्तविद्यापि रूपयौवनवत्यपि। रत्नप्रभा वरप्राप्त्या विर्नैपा यद्धुनोति माम् ॥१२६॥ नरवाहनदत्तस्य भार्योक्ता दैवतैरियम्। तत्किं न दीयते तस्मै भव्यसम्बन्धवर्तिने ॥१२७॥ इति प्रोक्तस्तया दथ्या स राजा पुनरब्रवीत्। बाढं सा कन्यका धन्या या तं वरमवाप्नुयात् ॥१२८॥ स हि कामावताराशत्र किं तु नाद्यापि सिद्ध्यताम्। प्राजन्मनेन मया तस्य विद्याप्राप्तिः प्रतीक्ष्यते ॥१२९॥ इत्यत्र बान्तस्तस्य मद्यस्तैर्वचनैः पितुः। वर्णप्रविष्ठे- कन्दर्पमोहम् रूपन्तेपमं ॥१३०॥ श्रान्तवाविशतिस्तत मुजव निदिरितव च । ममूरत्नप्रभा तन कृतचिता वरण गा ॥१३१॥