BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 311 of 1079

Read in context
Page 311

२८० कथासरित्सागर

प्रेषितोऽस्मीहेन्द्रेण स चैव वक्ति यः किल। सुनीथजीवितप्राप्त्या सन्तोषः परमो मम ॥१६३॥ तदिदानीं न कार्यं नः पुनर्बैरमकारणम्। विरोधश्च न चैवास्मत्पक्षेण श्रुतशर्मणा ॥१६४॥ एवमुक्तेन्द्रवाक्यं तं प्रह्लादो मुनिमब्रवीत्। 'सुनीथजीवितात्तुष्टिरिन्द्रस्येति किमन्यथा ॥१६५॥ अकारणविरोधं च वयं तावन्न कुर्महे। अद्यैव नियमोऽस्माभिः कृतः सर्वेर्गुरोः पुरः ॥१६६॥ श्रुतशर्मा सपत्नत्वमाश्रित्य स बलाद्यदि। अस्मद्विरुद्धं कुरुते कस्माकं तत्र वाच्यता ॥१६७॥ सूर्यप्रभस्य पक्षेण देवदेवेन शम्भुना। प्रागेव ह्ययमादिष्टः स पूर्वाराधितोऽस्य यत् ॥१६८॥ तदस्मिन्नीश्वरादिष्टे कार्ये किं कुर्महे वयम्। तन्निष्कारणमेवेन्द्रश्चक्रे वाक्यसमञ्जसम्' ॥१६९॥ इत्युक्तो दानवेन्द्रेण प्रह्लादेन स नारदः। तथेति वासवं निन्यमदर्शनमगात् मुनिः ॥१७०॥ तस्मिन् गते दानवेन्द्रामूघनास्तानभाषत। 'वैरानुबन्धः कार्येऽस्मिंस्तावदिन्द्रस्य दृश्यते ॥१७१॥ किं त्वस्मासु प्रसाद्येकबद्धकक्ष्ये महेश्वरे। का तस्य धक्तिः किं कुर्यादास्या वा तस्य वैष्णवी' ॥१७२॥ इति मुक्तवचः श्रुत्वा दानवास्तेऽजुमम्य च। सह प्रह्लादमामन्त्र्य बलिं जग्मुर्निजाल्वमान् ॥१७३॥ ततश्चतुर्थं पातालं प्रह्लादे स्वालयं गते। उत्थाय सवसो राजा विषेशाम्यन्तरं बलिः ॥१७४॥ मयः सुभीषद्वान्ये च सर्वे सूर्यप्रभादयः। प्रणम्य बलिमाजम्मुस्तदेव स्वं निकेतनम् ॥१७५॥ यत्रोचितकृताहारपानेष्वेपु समेत्य सा। हीरावती सुनीथं च जगाद जननी निजा ॥१७६॥ पुत्र जानासि यन्मिां मार्यायै महतां सुता। तेजस्विनी धनेदास्य तुम्बुरोरङ्गलावती ॥१७७॥