BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 315 of 1079

Read in context
Page 315

१८४ कथासरित्सागर कलावतीति तस्यैषा प्राणभ्योऽप्यधिका सुता। स इतोऽद्य वरो पार्श्वदागत्यैतत् पिताऽब्रवीत् ॥११३॥ दिष्ट्याद्य जीवितं प्राप्तं सुनीथः पुनरीक्षितः। सुमुण्डीकावतारश्च दृष्टः सूर्यप्रभो युवा ॥११४॥ सृष्टः खेचरसञ्चक्रवर्ती भावी हरेण यः। तद्विहानन्दसम्मानं सुनीथस्य करोम्यहम् ॥११५॥ श्रुतां सूर्यप्रभायैतां प्रयच्छामि कलावतीम्। सुनीथस्यकगोत्रत्वादार्तं ज्ञेया न युज्यते ॥११६॥ सूर्यप्रभश्च पुत्रोऽस्य राजन्मनि मासुरे। [L11: तत्सुतस्य च सम्मानः कृतस्तस्य कृतो भवेत् ॥११७॥ एतत्पितुर्वचः श्रुत्वा त्वद्गुणाकृष्टमानसा। मत्सखीमिहायाता त्वद्दर्शनकुतूहलात् ॥११८॥ एव तयोक्ते तत्सख्या निद्राति स्म मृषा सः। तदभिप्रायतात्पर्यं ज्ञातुं सूर्यप्रभस्तदा ॥११९॥ साथ कन्या विनिद्रस्य प्रहस्तस्यान्तिकं शनैः। गत्वा सखीमुखेनोक्त्वा सर्वमस्मै व्यसर्पयत् ॥१२०॥ प्रहस्तश्चाप्युपागत्य देव जागर्षि किं न वा। इति सूर्यप्रभं स्माह स चोन्मिष्य तमभ्यधात् ॥१२१॥ सखे जागर्मि निद्रा हि ममाद्यैकाकिनः कुतः। विशेषं तु वदाम्येष शृणु गोप्यं हि किं त्वयि ॥१२०२॥ अधुनैव प्रविष्टेह मया दृष्टा सखीयुता। कन्यकैका समा यस्यास्त्रैलोक्येऽपि न दृश्यते ॥१२३॥ क्षणेन च गता क्वापि हृत्वैव मम मानसम्। तद्गवेषय सद्यस्तामिहैव क्वचन स्थिताम् ॥१२४॥ इति सूर्यप्रभेणोक्तः प्रहस्तोऽथ बहिर्गतः। दृष्ट्वाच तां समं सख्या स्थितां कन्यामभाषत ॥१२५॥ 'मया त्वदुपरोधेन स्वस्वाम्येष विबोधितः। तत्त्वं मदुपरोधेन पुनर्देह्यस्य दर्शनम्' ॥१२६॥ पश्यास्य रूपं भूयोऽपि कृतार्थकरणं दृशोः। तव पश्यतु चैषोऽपि दृष्टिमात्रवशीकृतः ॥१२७॥