कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 321 of 1079
Read in context१९० कथासरित्सागर दृष्ट्वैव तद्गतमनास्तथाभूदचलप्रभा । आङ्गिकोऽभिनयोऽप्यस्या दृष्ट्वैवाविनयरथा ॥२३८॥ समाप्याथ तयोर्भावं तं द्वयोरप्यसक्यन् । प्रेक्षणं चोपसंजह्रुः श्रान्ता राजसुतेति ते ॥२३९॥ सठं सूर्यप्रभं तिर्यक् पश्यन्ती सा महल्लिका । पित्रा विसृष्टा वन्दित्वा दानवेन्द्रानगाद्गृहम् ॥२४०॥ दानवेन्द्राश्च ते सर्वे यथास्वमगमन् गृहान् । सूर्यप्रभोऽपि स्वावासमाजगाम दिनक्षये ॥२४१॥ प्रदोषे च कलावत्या पुनरागतया सह । सुष्वापाम्यन्तरे गुप्तं बहिः सुप्ताखिलानुगः ॥२४२॥ ताव महल्लिका सार्धं वत्सन्दर्शनसोत्सुका । तत्राययौ सविस्रम्भमवयस्याद्वयसङ्गता ॥२४३॥ अन्तत्प्रवेष्टुमिच्छन्तीं प्रज्ञाढ्याख्यो ददर्श ताम् । सूर्यप्रभस्य सचिवो निद्रया तत्क्षणोज्झितः ॥२४४॥ देवि तिष्ठ क्षण यावत् प्रविश्याभ्यन्तरादहम् । निर्गच्छामीति स च तां परिज्ञायोत्थितोऽभ्यधात् ॥२४५॥ रुद्धाः स्म किं बहिः कस्मादद्य चेति सशङ्कया । तया पृष्टः स मूढोऽपि प्रज्ञाढ्यो निजगाद ताम् ॥२४६॥ स्वैरं सुप्तस्य सहसैकान्तिकं किं प्रविश्यते । सुप्तश्चास्मतप्रभुरसावेको व्रतबशादिति ॥२४७॥ तत्तस्तथा विधत्स्व त्वमित्युक्तः सविलक्षया । प्रह्लादवैद्यसुतया प्रज्ञाढ्योऽन्तर्विवेश सः ॥२४८॥ सुप्तां कलावतीं दृष्ट्वा तस्मै सूर्यप्रभाय सः । प्रबोध्य स्वैरमाचख्यावागतां तां महल्लिकाम् ॥२४९॥ सूर्यप्रभश्च श्रुत्वा तच्छय्योत्थाय निर्गतः । दृष्ट्वा महल्लिकामात्मवृत्तीयामप्यभाषत ॥२५०॥ प्रीता कृतार्थता तामद्ययमभ्यागतो जनः । नीयतां स्थानमप्येतदासनं परिगृह्यताम् ॥२५१॥ तत्तस्तरोपविशदाथ सहास्याभ्यां महल्लिका । सूर्यप्रभोऽप्युपाविशत्स प्रज्ञाढ्ययुतस्ततः ॥२५२॥