BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 33 of 1079

Read in context
Page 33

१८ कथासरित्सागर सगर्भा चाभवद्देव्यभूत्सविशेषद्युतिस्तथा। सत्यं हेमासमारूढा भेजेऽन्तःपुररत्नताम् ॥११६॥ विद्याकल्पितसत्पद्मविमानेन नभस्तले। बभ्राम च सप्रभाभूतविलसद्गर्भबोढृवा ॥११७॥ प्राप्ते च समये तस्या देव्याः कन्याऽजनिष्ट सा। पर्याप्तं वर्णनं यस्या जन्म गौरीप्रसादतः ॥११८॥ नरवाहनदत्तस्य भार्यैषा भाविनीति वाक्। तदाश्रावि सुरादेशवचःसंभाविनी दिवः ॥११९॥ ततो राजा सुतोत्पत्तिनिर्विशेषकृतोत्सवः। तां स हेमप्रभोऽकार्षीन्नाम्ना रत्नप्रभां सुताम् ॥१२०॥ स्वविद्यासंस्कृता सा च तस्य रत्नप्रभा पितुः। अवर्धत गृहे दिक्षु प्रकाशस्तूपपद्यत ॥१२१॥ ततः स राजा तं वर्महरं वज्रप्रभं सुतम्। कृतवारक्रियं कृत्वा यौवराज्येऽभ्यषिञ्चवान् ॥१२२॥ विन्यस्तराज्यभारश्च तस्मिन्नासीत्स निर्वृतः। सुताविवाहचिन्ता तु तस्यैकामूदथा हृदि ॥१२३॥ एकदा सोऽन्तिकासीनां प्रदेयां वीक्ष्य तां सुताम्। राजाऽब्रवीदलङ्कारप्रभां देवीं समीपगाम् ॥१२४॥ कुलालङ्कारभूतापि पश्य देवि जगत्त्रये। कन्या नाम महद्दुःखं धिग्ग्रहो महतामपि ॥१२५॥ विनीताऽप्याप्तविद्यापि रूपयौवनवत्यपि। रत्नप्रभा वरप्राप्त्या विनेया यद्धुनोति माम् ॥१२६॥ नरवाहनदत्तस्य भार्योक्ता दैवतैरियम्। तत्किं न दीयते तस्मै भाव्यस्मच्चक्रवर्तिने ॥१२७॥ इति चोक्तस्तया देव्या स राजा पुनरब्रवीत्। बाढं सा कन्यका धन्या या तं वरमवाप्नुयात् ॥१२८॥ स हि कामावतारोऽत्र किं तु नाद्यापि विद्यताम्। प्राप्तस्तेन मया तस्य विद्याप्राप्तिः प्रतीक्ष्यते ॥१२९॥ इत्येवं वदतस्तस्य सद्यस्तैर्वचनैः पितुः। कर्णप्रविष्टैः कन्दर्पमोहमु त्रपदोपमैः ॥१३०॥ भ्रान्तेवाविष्टचित्तेव सुप्तेव मिलितेव च। अभूद्रत्नप्रभा तेन हृतचित्ता वरणं सा ॥१३१॥