BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 35 of 1079

Read in context
Page 35

२० कथासरित्सागर ततः कथञ्चित्पितरौ प्रणम्यान्तस्पुरं निजम्। गत्वा चिन्तातुरा निद्रां चिरेण कथमप्यगात् ॥१३२॥ प्रातः शुभे दिने पुत्रि वत्स वत्सेश्वरात्मजः। द्रष्टव्यः स्ववरो गत्वा कौशाम्बीं नगरीं त्वया ॥१३३॥ ततश्च स्वपुरेऽमुष्मिन्नानीय स्वपिता स्वयम्। तव तस्य च कल्याणि विवाहं संविधास्यति ॥१३४॥ इति स्वप्नेऽथ तां गौरी सानुकम्पा समादिशत्। प्रबुध्य सा च तं स्वप्नं प्रातर्मात्रे न्यवेदयत् ॥१३५॥ ततः सा तदनुज्ञाता बुद्ध्वा विद्याप्रभावतः। उद्यानस्थं वरं द्रष्टुं प्रावर्तत निजात्पुरात् ॥१३६॥ तामार्यपुत्र मामेतां वेत्थ रत्नप्रभामिति। प्राप्तामुक्त्वा क्षणेनाथ वित्थ यूयमतः परम् ॥१३७॥ एतत्तस्या वचः श्रुत्वा माधुर्यव्यक्ततामृतम्। विलोक्य नेत्रपीयूषं विद्याधर्या वपुश्च तत् ॥१३८॥ नरवाहनदत्तोऽन्तर्विधातारं निनिन्द सः। श्रोत्रनेत्रमयं कृत्स्नमकरोत्किं न मामिति ॥१३९॥ जगाद तां च धन्योऽहं जन्माद्य सफलं मम। योऽहमेवं स्वयं तन्वि स्नेहादभिसृतस्त्वया ॥१४०॥ इत्यन्योन्यनवप्रेमकृतसंलापयोस्तयोः। अकस्माद्ददृशे तत्र विद्याधरबलं दिवि ॥१४१॥ तातोऽयमागतोऽत्रेति त्राप्तरत्नप्रभोदिते। राजा हेमप्रभो व्योम्नः सपुत्रोऽवततार सः ॥१४२॥ उपाययौ च पुत्रेण सह बद्धप्रेमेण सः। नरवाहनदत्तं तं विहितस्वागतादरम् ॥१४३॥ अन्योन्यरचिताचारा यावत्तिष्ठन्ति ते क्षणात्। तावत्तत्रायायौ बुद्ध्वा वत्सराजः समन्त्रिकः ॥१४४॥ कृतातिथ्यविधिं तं च नृपं हेमप्रभाख्यं सः। यथा रत्नप्रभोक्तं तं वृत्तान्तं समबोधयत् ॥१४५॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · Page 35 of 1079 · BharatKosha