कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 389 of 1079
Read in context१५८ कथासरित्सागर वीक्ष्य प्रलम्बं निहतं मोहनो नाम भूपतिः। सक्षिप्त्याट्टहासं च सादयामास सायकैः ॥६१॥ ततोऽट्टहासस्तं छिन्नकोदण्डं हतसारथिम्। दृढप्रहाराभिहतं पातयामास मोहनम् ॥६२॥ दृष्ट्वाऽट्टहासन हतांश्चतुरश्चतुरेष्व तान्। श्रुतशर्मबलं हर्षाद्भुवनाव भयोन्मुखम् ॥६३॥ तद्दृष्ट्वा कुपितो हर्षं सूर्यप्रभवयस्यकः। ससैन्यमभ्यधावत्तमट्टहासं ससैनिकः ॥६४॥ निवार्य च शरैस्तस्य क्षरान्सैन्यं निहत्य च। व्यापाय सारथिं द्वित्रिर्धनुश्छित्वा च सभ्यजम् ॥६५॥ हर्षो यदट्टहासस्य निर्बिभेद शरैः शिरः। तेनासौ रुधिरोद्गारी निपपात रथाद्भुवि ॥६६॥ अट्टहासे हते तादृक् क्षोभोऽभूत्तत्र संयुगे। क्षणादर्धावशेषं तद्येन जज्ञे बलद्वयम् ॥६७॥ निपेतुश्चैवं निहतास्तत्राश्वगजपत्तयः। रणमूर्धनि चोतस्थुः कबन्धा एव केवलम् ॥६८॥ ततो विकृतदंष्ट्राख्यो हर्षं विद्याधरेश्वरः। एत्याट्टहासनिधनक्रुद्धो बाणैरवाकिरत् ॥६९॥ हर्षोऽपि तस्य निर्भिद्य शराञ्छत्रध्वजसारथीन्। हत्वा रथाश्वांश्चिच्छेद शिरो लुलितकुण्डलम् ॥७०॥ हते विकृतदंष्ट्रे तु चक्रवाल इति श्रुतः। राजा विद्याधरो हर्षमभ्यधावदमर्षितः ॥७१॥ स युध्यमानमवधीदसकृच्छिन्नकार्मुकम्। चक्रवालो युधि श्रान्तं हर्षं क्षीर्णपरायधम् ॥७२॥ तत्क्षेत्रेधावेक्ष्य नृपतिं प्रमाथस्तमयोभयत्। सोऽप्यहन्यत तेनाथ चक्रवालेन संयुगे ॥७३॥ तथैव तेन चात्रान्येऽप्येकशो धाविताः क्रमात्। चत्वारश्चक्रवालेन राजमुख्या निपातिताः ॥७४॥ कङ्कटश्च विशाखश्च प्रचण्डश्चास्रुरी सभा। तद्दृष्ट्वाभ्यपतत्तत्रेमाधिभर्त्तो नाम तं नृपः ॥७५॥