BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 391 of 1079

Read in context
Page 391

५५ कथासरित्सागर तौ चक्रवालनिर्घातौ युध्यमानौ चिरं क्रमात् । अन्योन्यचूर्णितरथावभूतां पादचारिणौ ॥७६॥ असिचक्रधरौ द्वावप्याकोपाभिमुखौ च तौ। खड्गाहतिद्विधाभूतसूर्धानौ भुवि पेततुः ॥७७॥ विपक्षौ वीक्ष्य तौ वीरौ विपण्णेऽपि बलद्वये । रणाग्रमाययौ विद्याधरेन्द्रः कालकम्पनः ॥७८॥ राजपुत्रोऽभ्यधावच्च तं प्रकम्पननामकः । स कालकम्पनेनाशु क्षणात्तेन न्यपात्यत ॥७९॥ तस्मिन्निपतिते तस्य पञ्चान्यऽभ्यपतन् रथाः । जालिकश्चण्डदत्तश्च गोपकः सोमिलोऽपि च ॥८०॥ पितृशर्मा च सर्वे ते शराँस्तस्मिन् सहासृजन्। स तु पञ्चापि तान्कालकम्पनो विरथीकृतान् ॥८१॥ जघान युगपद्भिष्मशराचैर्हृदि पञ्चभिः। प्रणष्टुं खेचरास्तेन व्यषीदन् मनुजासुराः ॥८२॥ ततोऽभ्यधावन्नपरे चत्वारस्त रथाः समम् । उमसकः प्रथस्तश्च विस्रम्भकधुरन्धरौ ॥८३॥ स तानप्यवधीत्कालकम्पनो लीलयाखिलान्। तथैव धावितानन्यान्क्रुद्धांश्चिजघान सः ॥८४॥ तेजिकं गेयिकं चैव वेगिलं शालिलं तथा। भद्रङ्कुरं दण्डिनं च भूरिसैन्यान् महारथान् ॥८५॥ अपरांश्च पुनः पञ्च सोऽवधीन्मिलितान्युधि । भीमभीषणकुम्भीरविकटाक्षविलोचनान् ॥८६॥ तद्दृष्ट्वा कदनं कालकम्पनेन कृतं रणे। भयावत्सुगणो नाम राजपुत्रोऽस्य सम्मुखः ॥८७॥ स तेन तावद्विदधे समं युद्धमुभावपि । हताश्वसारथी यावद्विरथौ तौ बभूवतुः ॥८८॥ ततस्तं खड्गयुद्धेन सुगणं पादचारिणम्। स कालकम्पनः पादचार्येव भुवि जघ्निवान् ॥८९॥ तावच्च मानुषविद्याधराणां सममाहवम्। असम्भाव्यं विलोक्येव क्षिप्रमस्तं प्रययौ रविः ॥९० ॥