कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 411 of 1079
Read in context१७८ कथासरित्सागर तौ पदाती रथस्थौ द्वौ दमं च नियमं च तम्। व्याकुलीचक्रतुश्छिन्नचापौ निहतसारथी ॥८३॥ भयादारुह्यतोर्व्योम तयोरारोहतः स्म तौ। स कुञ्जरकुमारश्च प्रहस्तश्च धृतायुधौ ॥८४॥ तद्दृष्ट्वा रमसात्सूर्यप्रभोऽत्र प्राहिणोत्तयोः। महाबुद्धयशस्वद्बुद्धी सारथित्वे स्वमन्त्रिणौ ॥८५॥ सोऽथ प्रहस्तो दृष्ट्वा तावदृश्यावपि मायया। सिद्धाञ्जनप्रयोगेण स कुञ्जरकुमारकः ॥८६॥ सद्यो विव्याध बाणौघैः पलाय्य ययतुर्यथा। दमश्च नियमश्चोभौ तौ विद्याधरपुत्रकौ ॥८७॥ प्रभासो युध्यमानश्च शेषद्वाविंशभिः सह। तेषां चकर्त कोदण्डानसकृत्कृन्सितानपि ॥८८॥ प्रहस्तोऽन्मथयत् सर्वेषामवधीत्सारथीन्सगम्। स कुञ्जरकुमारोऽपि जघानेषां तुरङ्गमान् ॥८९॥ ततस्तत्रारथाः सर्वे द्वादशापि समेत्य ते। हन्यमानास्त्रिभिर्वीरैः पलाय्य समराद्ययुः ॥९०॥ ततोऽन्यौ श्रुतशर्मा द्वौ रथातिरथयूथपौ। विद्याधरौ प्रेषितवान्क्रुद्धश्चोद्यत्रपाकुलः ॥९१॥ एकं चन्द्रकुशाग्रीन्द्रपतेः क्षेत्रे निशाकरात्। उत्पन्नं चन्द्रगुप्ताख्यं कान्तं चन्द्रमिवापरम् ॥९२॥ धुरन्धराचलाधीशक्षेत्रे जातं महाधुविम्। मगरङ्गमनामानं द्वितीयं सचिवं स्वकम् ॥९३॥ तावपि क्षिप्तबाणौघौ क्षणेन विरथीकृतौ। तैः प्रभासादिभिस्त्यक्त्वा युद्धं नष्टौ बभूवतुः ॥९४॥ ततो नवरसु मनुजेष्वसुरेषु च स स्वयम्। प्रागाच्छतुर्भिः सहितः श्रुतशर्मा महारथैः ॥९५॥ महौधारोहणोत्पातवज्रदंष्ट्रसंजकः क्रमात्। स्पष्टांगस्य चार्यम्वः पूर्णश्चाप्यारमसम्भवैः ॥९६॥ चतुर्णां चित्रपादादिविद्याधरमहीभुजाम्। मलयाद्यद्रिनाथानां क्षेत्रजः प्राग्यविक्रमः ॥९७॥