कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 413 of 1079
Read in context१८० कथासरित्सागर ततस्तेनात्यमर्षार्तेनात्मना पञ्चमेन ते। अयुध्यन्त प्रभासाद्यास्त्रयोऽत्र श्रुतशर्मणा ॥९८॥ तदा तैर्मुक्तमन्योन्यं बाणजालं बभौ दिवि। रणलक्ष्म्या तपत्यर्के वितानकमिवताततम् ॥९९॥ ततो विद्याधरास्तेऽपि पुनस्तमाययुर्मृधे। विरथीभूय ये नष्टा बभूवुः समरात्तदा ॥१००॥ अथ तान् श्रुतशर्मादीन्मिलितानाहवे बहून्। दृष्ट्वा सूर्यप्रभोज्यान् स्वान्प्रभासाद्यमुपौजषे ॥१०१॥ महारथान्प्रहितवान्प्रभासप्रमुखान्त्सखीन् वीरसेनशतानीकमुख्यान् राजसुतांस्तथा ॥१०२॥ व्योम्नात्र तेषां यातानां स च सूर्यप्रभो रथात्। भूतासनविमानेन प्रजिघाय श्रुतवर्त्मना ॥१०३॥ ततः सर्वेषु तेष्वत्र रथाऽऽरूढेषु धन्विषु। विद्याधरेन्द्राः क्षेपा अप्याजग्मुः श्रुतशर्मणः ॥१०४॥ तेषां विद्याधरेन्द्राणां तैः प्रभासादिभिः सह। सम्प्रहारः प्रवृत्तोऽभून्महासैन्यक्षयावहः ॥१०५॥ तत्र च द्वन्द्वसङ्ग्रामेष्वन्योन्यं सैन्ययोर्द्वयोः। हता महारथास्ते ते मानुषासुरखेचराः ॥१०६॥ वीरसेनेन निहतः सानुगो धूम्रलोचनः। वीरसेनोऽपि विरथीभूतः सन्हरिशर्मणा ॥१०७॥ हतो विद्याधरो वीरो हिरण्याक्षोऽभिमन्युना। अभिमन्युः सुनेत्रेण हृतो हरिवटस्तथा ॥१०८॥ सुनेत्रश्च प्रभासेन शिरश्छित्त्वा निपातितः। ज्वालामाली महायूपश्चाप्यन्योन्येन हतावुभौ ॥१०९॥ कुम्भीरको नीरसकः प्राहरन्बन्धनैरपि। सर्वैश्च भुजयोश्छेदात्सुशर्मा चोपविक्षिप्तम् ॥११०॥ अथ शत्रुगटव्याघ्रभटसिंहभटा अपि। हताः प्रवहणेनैते विद्याधरमहीभृता ॥१११॥ स सुरोहविरोहाभ्यां द्वाभ्यां प्रवहणो हतः। श्मशानवासिना द्वौ च हतो सिंहबलेन तौ ॥११२॥