कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 43 of 1079
Read in contextरक्षा चान्तःपुरेऽप्येवंदुर्लभैवेहसम्मत मम। इति त्रास्यामुदित्वा सा स्वपतिं तमभाषीत् ॥५॥ आर्यपुत्र प्रसङ्गेन वदामि एष तच्छृणु। नीतिमात्रमहं मन्ये स्त्रीणां रक्षानिमन्त्रणम् ॥६॥ ईर्ष्याकृतोऽथवा मोहः कार्यं तेन न किञ्चन। महत्तरेण रक्ष्यन्त शीलेनैव कुलस्त्रियः ॥७॥ धातापि न प्रभुः प्रायश्चपलानां तु रक्षणे। मत्ता नदी च नारी च नियन्तुं केन पार्यते ॥८॥ राज्ञो रत्नाधिपतेः कथा तथा च श्रूयतामत्र कथां वः कथयाम्यहम्। अस्तीह रत्नकूटाख्यं द्वीपं मध्येऽम्बुधेर्महत् ॥९॥ तत्र राजा महोत्साहः पुरा परमवैष्णवः। यथार्थेनाभिधानेन रत्नाधिपतिरित्यभूत् ॥१०॥ स राजा विजयं पृथ्व्याः सर्वराजात्मजास्तथा। भार्याः प्राप्तुं तपस्तेपे विष्णोराराधनं महत् ॥११॥ सन्तुष्टस्तपसा साक्षात् भगवानादिदेश तम्। उत्तिष्ठ राजंस्तुष्टोऽस्मि तदिदं वच्मि ते शृणु ॥१२॥ कलिङ्गविषये कोऽपि गन्धर्वो मुनिशापतः। समुत्पन्नो गजः श्वेतः श्वेतरश्मिरिति श्रुतः ॥१३॥ पूर्वजन्मतपःसिद्धियोगाम्दवमखितस्तपा । ज्ञानी गगनगामी च गजो जातिस्मरण सः ॥१४॥ दत्तादेशो मया स्वप्ने स च हस्ती महांस्तव। एत्य स्वयं द्युमार्गेण वाहनत्वं प्रपत्स्यते ॥१५॥ तमारुह्य गजं श्वेतं सुरेन्द्रमिव वज्रभृत्। व्योममार्गेण यं यं त्वं राजानमभियास्यसि ॥१६॥ स स दिव्यानुभावाय भीतस्तुभ्यं प्रदास्यति। स्वप्ने मयैव दत्ताशः कन्यादाननिभास्करम् ॥१७॥ एवं विजेष्यसे कृत्स्नां पृथ्वीमन्तःपुराणि च। राजपुत्रीसहस्राणि त्वमशीतिमवाप्स्यसि ॥१८॥ इत्युक्त्वाऽन्तर्हिते विष्णौ स राजा कृतपारणः। अभ्युद्यदुरागतं व्योम्ना तं ददर्श गजं शुभम् ॥१९॥