BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 439 of 1079

Read in context
Page 439

४०४ कथासरित्सागर

विस्मितांश्चाब्रवीत्सभ्यान्यायं मे गुणशर्मणः। शृणुतेति ततस्तं स गुणशर्मा व्यजिज्ञपत् ॥१३४॥ भृत्योऽहं त्वं प्रभुस्तद्वौ व्यवहारः कथं समः। अधितिष्ठासनं पश्चाद्यदिच्छसि तथाविधम् ॥१३५॥ इति धीरेण तेनोक्तो मन्त्रिभिश्च प्रबोधितः। अभ्यास्ते स्मासने राजा पुनः सभ्यानुवाच च ॥१३६॥ विदितं वावदेतद्वो मन्त्रिणो यत्क्रमागतम्। विहाय गुणशर्मायं तावदात्मसमः कृतः ॥१३७॥ श्रूयतां मम चैतेन कीदृग्दूतगतागतैः। गौडेश्वरेण कृतैक्यं द्रोहं कर्तुमचिन्तयत् ॥१३८॥ इत्युक्त्वा वर्णयामास तत्तेभ्यः स महीपतिः। यदशोकवती तस्मै जगाद रचितं मृषा ॥१३९॥ योऽप्यारम्भवसनाक्षेपस्तया तस्य मृषोदितः। निष्कास्य लोकान्ताप्तेभ्यः सोऽप्युक्तस्तेन भूभुजा ॥१४०॥ ततः स गुणशर्मा तमुवाचासत्यमीदृशम्। देव केनासि विज्ञप्तं तन्मित्रं केन निर्मितम् ॥१४१॥ तच्छ्रुत्वैव नृपोऽवादीत्पाप सत्यं न चेदिदम्। चरुभाण्डान्तरस्थं तत्कथं ज्ञातं विषं त्वया ॥१४२॥ प्रज्ञया ज्ञायते सर्वमित्युक्ते गुणशर्मणा। अशक्यमेतदित्यूचुस्तद्वेषेणान्यमन्त्रिणः ॥१४३॥ देव तत्त्वमनन्विष्य वक्तुमेव न ते क्षमम्। प्रभुश्च निर्विचारश्च नीतिज्ञैर्न प्रशस्यते ॥१४४॥ इत्यस्य वदतो भूयः स राजा गुणशर्मणः। धावित्वा छुरिकाघातं ददौ धृष्ट इति ब्रुवन् ॥१४५॥ तस्मिन्प्रहारे चरणप्रयोगात्तेन वञ्चिते। अन्ये तु प्रहरन्ति स्म वीरे तस्मिन्नृपानुगाः ॥१४६॥ स चापि युद्धकरणैर्वञ्चयित्वा कृपाणिकाः। गुणशर्मा समं तेषां सर्वेषामप्यपाहरत् ॥१४७॥ बबन्ध चैतानन्योऽन्यं केशपाशेन वेष्टितान्। कृत्वा चरणयुक्त्यैव चित्रद्युतिशितलाघवः ॥१४८॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · Page 439 of 1079 · BharatKosha