BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 515 of 1079

Read in context
Page 515

कथासरित्सागर ... = ... ... दृन्त्या प्रियया सहितस्त्वया। शेषांश्च तव भजे पृथ्वीपतिः कृती ॥१९९॥ इत्युक्तः स्मरदो मन्त्री गोमुखस्तत्सुखोन्मुखः। नरवाहनदत्तं तमुवाचोत्सुकः पुनः ॥२००॥ एष विरहो वीरं सत्त्वेशो विरहद्विषम्। न तु सोढुं सहते नैकामपि देव निशां कथम् ॥२०१॥ भवन्तमलंकारवती हि परिणेष्यति। श्वेतेतिविदुषो न तत्र तत्समागतः ॥२०२॥ तच्छ्रुत्वाऽथायमुचिवान् मरुभूतिरभाषत। उत्सन्नरससन्ताप स्वस्थस्त्वं किं न जल्पसि ॥२०३॥ कुरुते पुमान् धैर्यं विवेकं धीरुमेव च। यावन्नापतति कामस्य सायकानां न गोचरे ॥२०४॥ इक्ष्वाकुः सरस्वती स्कन्दो जिनश्च जगति त्रयः। एवन्तमतीत्यवाक्षिप्ता व्याभूय यैः स्मरः ॥२०५॥ मरुभूतो वदत्येवमुद्विग्नं वीक्ष्य गोमुखम्। नरवाहनदत्तस्तं समर्थयितुमभ्यधात् ॥२०६॥ विभोऽभ्यर्धमेतन्मे गोमुखो युक्तमुक्तवान्। स्निग्धो हि विरहायासे सानुवादं वदति किम् ॥२०७॥ समाश्वास्यो यथाशक्ति स्वजनैर्विरहातुरः। अतः परं स जानाति देवश्चासमसायकः ॥२०८॥ इत्यादि जल्पन्नुत्सृज्य तास्ताः परिजनाःकथाः। नरवाहनदत्तस्तां त्रियामामप्यवाहयत् ॥२०९॥ अलंकारवतीनरवाहनदत्तयोर्विवाहः अथ स प्रातरुत्थाय विहितावश्यकक्रियः। गगनाववरोहन्तीमपश्यत्काञ्चनप्रभाम् ॥२१०॥ भर्त्रालंकारशीलेन धर्मशीलेन सूनुना। तयालंकारवत्या च स्वदुहित्रा समन्विताम् ॥२११॥ ते चावतीर्य सर्वेऽपि तत्समीपमुपागमन्। अभ्यनन्दच्च तान्सोऽपि सं च तेऽपि यथोचितम् ॥२१२॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · Page 515 of 1079 · BharatKosha