BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 519 of 1079

Read in context
Page 519

४८२ कथासरित्सागरे स च नरवाहनदत्तः सद्वृत्तमनोरमामुदारगुणाम्। प्राप्यालङ्कारवतीं वाणीमिव सुकविरास्त तद्रसिकः ॥२२७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे अलंकारवती लम्बके प्रथमस्तरङ्गः। द्वितीयस्तरङ्गः नरवाहनदत्तस्यालङ्कारवतीगृहे गमनम् ततोऽलङ्कारवत्या स युक्तो वत्सेश्वरात्मजः। नरवाहनदत्तोऽत्र नववध्वा पितुर्गृहे ॥१॥ तच्चेटिकानां दिव्येन नृत्यगीतेन रञ्जितः। आपानं सेवमानश्च सचिवैः सह तस्थिवान् ॥२॥ एकदा च तमागत्य सा श्वश्रूः काञ्चनप्रभा। [L13: ] अलंकारवतीमाता विहितातिथ्यमब्रवीत् ॥३॥ आगच्छास्मद्गृहं पश्य तत्सुन्दरपुरं पुरम्। रमस्व तत्रोपवनेष्वलङ्कारवतीयुतः ॥४॥ एतच्छ्रुत्वा ससंरयुक्त्या पितुरावन्द्य तद्गिरा। वसन्तकं सहायाय वध्वा सह समन्वितः ॥५॥ श्वश्र्वा विद्याप्रभावेण तयैव स विनिर्मितम्। विमानवरमारुह्य प्रतस्थे व्योमवर्त्मना ॥६॥ विमानस्थश्च गमनात् सोऽधस्तात् प्रविलोकयन्। स्थलीपरिमितों पृथ्वीं समुद्रान् परिखासमान् ॥७॥ ॥८॥१ श्वश्रूभार्यादिभिः साकं क्रमात् प्राप हिमाचलम्। नादितं किन्नरीगीतैः स्वर्गभूसादृशसुन्दरम् ॥९॥ तत्राश्चर्याणि सुबहून्येव पदमवाप्तवान्। नरवाहनदत्तोऽथ तत्सुन्दरपुरे युवा ॥१०॥ १ मूलपुस्तके श्लोकोऽयं त्रुटितः।

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · Page 519 of 1079 · BharatKosha