BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 549 of 1079

Read in context
Page 549

सापि तं वीक्ष्य सहसा सुभगं पुष्पधन्वनः। पतिता गोधरेऽनङ्गप्रभा क्षणमचिन्तयत् ॥२००॥ कोऽयं किमयममुक्तपुष्पचापॊ मनोभवः। किं मूर्तो गीततुष्टस्य शर्वस्यानुग्रहो मयि ॥२०१॥ इति सञ्चिन्त्य पप्रच्छ सा तं मदनमोहिता। कस्त्वं कथं वनं खेदमागतोऽस्युच्यतामिति ॥२०२॥ ततो यथागतो यः स सर्वं तस्यै शशंस तत्। स राजा तामथापृच्छत् का त्वं सुन्दरि शंस मे ॥२०३॥ यश्च सुप्तस्थितोऽत्रायमेष कः कमलानने। इति तं पृच्छन्तं च सङ्क्षेपेण जगाद सा ॥२०४॥ अहं विद्याधरी खड्गसिद्धश्चैष पतिर्मम। दृष्टमात्रे च जातास्मि सानुरागाधुना त्वयि ॥२०५॥ तदेहि तावद् गच्छावस्त्वदीयं नगरं द्रुतम्। यावत् प्रबुध्यते नायं तत्र वक्ष्यामि विस्तरात् ॥२०६॥ श्रुत्वैतत्तद्वचो राजा प्रतिपद्य तथेति सः। त्रैलोक्यराज्यसम्प्राप्तिहर्षं हरिवरो दधे ॥२०७॥ नृपमङ्के गृहीत्वैमं गन्त्वाभ्युत्पत्य खं जवात्। इत्यनङ्गप्रभा सान्तः सत्वरा समचिन्तयत् ॥२०८॥ तावच्च भ्रष्टविद्याभूवद्भर्तृद्रोहेण तेन सा। स्मरन्ती पितृशापं च विषादं सहसा ययौ ॥२०९॥ तद्दृष्ट्वा कारणं पृष्ट्वा स राजा तामभाषत। न विषादस्य कालोऽयं प्रबुध्येतैष ते पतिः ॥२१०॥ दैवायत्तं च यत्सर्वं तच्छोचितुं नार्हसि प्रिये। को हि स्वशिरसश्छायां विभेद्योत्सृजयेद् गतिम् ॥२११॥ तदेहि याम इत्युक्त्वा तां स त्वरितद्विगरम्। अङ्के हरिवरश्चक्रे राजानङ्गप्रभां द्रुतम् ॥२१२॥ ततो निधानलब्ध्येव तुष्टो गत्वा यथागतं। राजारुरोह स्वरथं स भृत्यैरभिनन्दितः ॥२१३॥ तेन स्वनगरं प्राप स नभश्शीघ्रगामिना। रथेन रमणीयुक्तः प्रजानां दत्तकौतुकः ॥२१४॥