BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 575 of 1079

Read in context
Page 575

कथासरित्सागर स्वनामसङ्गं स्वकृतं स पश्यंस्तत्पुरं नृपः। तेनाययौ पथा यत्र गृहं विजयवर्मणः ॥३४६॥ बुद्ध्वा च नृपमायान्तं तद्दर्शनकुतूहलात्। आरुरोहाथ सानङ्गप्रभा हर्म्यतलं सदा ॥३४७॥ अनंगप्रभामदनप्रभयोः कथा दृष्ट्वैव सा तं राजानं तथाभूतदृशा यया। हठाद्राजकरेगुस्थं हस्त्यारोहमभाषत ॥३४८॥ भो हस्त्यारूढ नैवाहमारूढा जातु हस्तिनम्। तदारोहय मामत्र वीक्षे तावत् कियत्सुखम् ॥३४९॥ तच्छ्रुत्वाधोरणे तस्मिन् राजाननविलोकिनि। राजा ददर्श तामिन्दोर्बिवं कान्तिमिव च्युताम् ॥३५०॥ पिबंश्च तामतृप्तेन चकोर इव चक्षुषा। नृपस्तत्प्राप्तिबद्धाशो हस्त्यारोहमुवाच सः ॥३५१॥ नीत्वा करेणुं निकटं पूरयास्या मनोरथम्। आरोपयन्दुवदनाम तामत्राविलम्बितम् ॥३५२॥ इति राज्ञोदितं तेन हस्त्यारोहेण ढौकिता। अधस्तात्तस्य हर्म्यस्य तत्क्षणं सा करेणुका ॥३५३॥ दृष्ट्वा तां निकटप्राप्तां राज्ञः सागरवर्मणः। उत्सङ्गे तस्य सानङ्गप्रभात्मानमपातयत् ॥३५४॥ क्वादौ स भर्तृविद्वेषः क्वेषा भर्तृष्वतृप्तता। हा तस्याः पितृशापेन दर्शितोऽतिविपर्ययः ॥३५५॥ निपातभीतेव च सा कण्ठे तं नृपमग्रहीत्। तत्स्पर्शामृतसिक्ताङ्गः सोऽपि प्राप परां मुदम् ॥३५६॥ युक्त्या समर्पितात्मानं परिरुम्बमलांरुताम्। तां स राजा गृहीत्वैव जगामाशु स्वमन्दिरम् ॥३५७॥ तत्र तामुक्तवृत्तान्तां सर्वैव द्युचराङ्गनाम्। स चकार महादेवी प्रवेश्यान्तःपुरे नृपः ॥३५८॥ बुद्ध्वा राजहृतामेतामल्पं क्षत्रमिवाथ सः। बहिर्विजयवर्मात्रि राजभृत्यानयोधयत् ॥३५९॥ युद्धे च तत्र तत्याज शरीरमपराङ्मुखः। न शूरा विपद्यन्ते हि स्त्रीनिमित्तं पराभवम् ॥३६०॥