कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 59 of 1079
Read in context५८ कथासरित्सागर शीलवत्याः स्वसेतीमां जानतो बत विस्मृता। सुधायाः सहजा सा मे कालकूटविषच्छला॥९५॥ अथवा कः समर्थः स्यादसम्माव्यं विचेष्टितम्। जेतुं पुरुषकारेण विधेरद्भुतकर्मणः॥९६॥ इत्यालोच्य न चुक्रोश कस्मैचित् जहौ च सः। पृष्टोदन्तं वणिक्पुत्रं राजा प्रच्छन्नकामुकम्॥९७॥ सोऽपि मुक्तस्ततोऽभ्यन्तति काञ्चिद्वणिक्सुतः। निर्गत्याब्धौ प्रवहणं दूरादागच्छदैक्षत॥९८॥ ततः फलकम् भूयस्तमेवारुह्य सोऽम्बुधौ। भ्रमन्नूत्कृत्य चक्रन्द मामुद्धरत भो इति॥९९॥ तेन स क्रोधवर्माख्यो वणिक्प्रधानपाथगः। समुद्धृत्य वणिक्पुत्रं चकारास्तिकवसिनम्॥१००॥ मस्य यद्विहितं धात्रा कर्म नाशाय तस्य तत्। पदवीं यत्र तत्रापि धावतोऽप्यनुधावति॥१०१॥ यथा तत्र स्थितो मूढस्तत्पत्न्या सङ्गतो रहः। विलोक्य वणिजा तेन क्षेपितोऽब्धौ व्यपद्यत॥१०२॥ तावच्च रत्नाधिपतिः स राजा सपरिच्छदाम्। आरोप्य श्वतरथमो तां राजवत्तामकोपतः॥१०३॥ प्रापय्य रत्नकटकं शीलवत्याः समर्प्य च। तस्यै च सचिवेभ्यश्च सवृत्तान्तमवर्णयत्॥१०४॥ जगाद च कियद्दुःखमनुभूतमहो मया। असारविरसेष्वेषु भोगेष्वामुक्तचेतसा ॥१०५॥ तदिदानीं वनं गत्वा हरिं शरणमाश्रये। येन स्यां नैष दुःखानां भाजनं पुनरीदृशाम्॥१०६॥ इत्युक्तवान् स मचिबर्वार्यमाणोऽपि दुःखितः। शीलवत्या च वैराग्यान्निश्चयं नैव तज्जहौ॥१०७॥ ततोऽधमपरित्रादावत्रं साध्ये स्वकोशतः। दीनवर्यै द्विजभ्योऽथ दत्वान्यद् भोगनिस्पृहः॥१०८॥ पात्रभूतप्रनगजाय ब्राह्मगाय यथाविधि। न्दो गुणमरिष्टाय नित्यं गव्यं स भूपतिः॥१०९॥