BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 59 of 1079

Read in context
Page 59

५८ कथासरित्सागर शीलवत्याः स्वसेतीमां जानतो बत विस्मृता। सुधायाः सहजा सा मे कालकूटविषच्छला॥९५॥ अथवा कः समर्थः स्यादसम्माव्यं विचेष्टितम्। जेतुं पुरुषकारेण विधेरद्भुतकर्मणः॥९६॥ इत्यालोच्य न चुक्रोश कस्मैचित् जहौ च सः। पृष्टोदन्तं वणिक्पुत्रं राजा प्रच्छन्नकामुकम्॥९७॥ सोऽपि मुक्तस्ततोऽभ्यन्तति काञ्चिद्वणिक्सुतः। निर्गत्याब्धौ प्रवहणं दूरादागच्छदैक्षत॥९८॥ ततः फलकम् भूयस्तमेवारुह्य सोऽम्बुधौ। भ्रमन्नूत्कृत्य चक्रन्द मामुद्धरत भो इति॥९९॥ तेन स क्रोधवर्माख्यो वणिक्प्रधानपाथगः। समुद्धृत्य वणिक्पुत्रं चकारास्तिकवसिनम्॥१००॥ मस्य यद्विहितं धात्रा कर्म नाशाय तस्य तत्। पदवीं यत्र तत्रापि धावतोऽप्यनुधावति॥१०१॥ यथा तत्र स्थितो मूढस्तत्पत्न्या सङ्गतो रहः। विलोक्य वणिजा तेन क्षेपितोऽब्धौ व्यपद्यत॥१०२॥ तावच्च रत्नाधिपतिः स राजा सपरिच्छदाम्। आरोप्य श्वतरथमो तां राजवत्तामकोपतः॥१०३॥ प्रापय्य रत्नकटकं शीलवत्याः समर्प्य च। तस्यै च सचिवेभ्यश्च सवृत्तान्तमवर्णयत्॥१०४॥ जगाद च कियद्दुःखमनुभूतमहो मया। असारविरसेष्वेषु भोगेष्वामुक्तचेतसा ॥१०५॥ तदिदानीं वनं गत्वा हरिं शरणमाश्रये। येन स्यां नैष दुःखानां भाजनं पुनरीदृशाम्॥१०६॥ इत्युक्तवान् स मचिबर्वार्यमाणोऽपि दुःखितः। शीलवत्या च वैराग्यान्निश्चयं नैव तज्जहौ॥१०७॥ ततोऽधमपरित्रादावत्रं साध्ये स्वकोशतः। दीनवर्यै द्विजभ्योऽथ दत्वान्यद् भोगनिस्पृहः॥१०८॥ पात्रभूतप्रनगजाय ब्राह्मगाय यथाविधि। न्दो गुणमरिष्टाय नित्यं गव्यं स भूपतिः॥१०९॥